________________
२६६
क्षोरतरङ्गिध्या
१३८. षिच क्षरणे। सिञ्चति, सिञ्चते । उपर्गात् सुनोति (८। ३१६५) इति षः अभिषिञ्चति । स्थादिष्वभ्यासेन चाभ्यासस्य (८। ३१६४) -अभिषिषेच, अभ्यषिञ्चत् । असिचेत्, असिक्त, असिचत ।
दाम्नी (३।२।८२) इति ष्ट्रन् - सेक्त्रम् । सिचेः संज्ञायां कन् नुहो ५ च (द० उ० ६।१०६)-सिंहः। सिचो यङि (८।३।११२) न षत्वम् – अभिसेसिच्यते । ण्यन्तस्योपसंख्यानम्'-असीसिचत्' ॥१५२
१३६. अनुदात्ताः स्वरितेतः।
१४०. कृती छेदने। इतस्त्रयः सेट: परस्मैपदिनश्च । कृन्तति । कतिता । सेऽसिचि (७।२।५७) इति कर्त्यति, कतिष्यति । कृत्तः, १० ईदित्त्वं यङ लुगर्थं -चरीकृत्तः । निरुपपदात् क्विप् (द्र० ३।२।७६)'
-कृत् । कर्तरी छेदनी । कृत्तिश्चर्म । कृतेश्छः क्रू च (उ० २।२१) -कृच्छम् क्रूरः । कृत्यशूभ्यां स्नः (उ० ३।१७)-कृत्स्नम् । कृतिभिदि (उ० ३।१४७) इति तिकन्–कृत्तिकाः । रुधादौ कृती
वेष्टने (७।१२)-कृणत्ति ॥१५३॥ १५ १४१. खिद परितापे । खिन्दति भिदादौ (गण० ३।३।१०४)
खिदा । रुधादौ खिद देन्ये (७।१६)-खिन्ते। खिद्यत इति कर्मकर्तरि' दिवादौ (४।६१ दुर्गमते) वा ऽभ्यूह्यः ॥१५४॥ ___१. नैतद्वचनं क्वचिद् दृष्टम् । धातुवृत्तौ (पृष्ठ ३४६) स्मृतमिदम् ।
२. सकारादौ प्रत्यय इड्विकल्पनात् (द्र० ७।२।५७) यस्य विभाषा (७) १ २।१५) इतीप्रतिषेधः सिद्ध एव, किमीदित्त्वेन । तदनर्थकं सत् यङ लुकि इट्प्रतिषोधार्थमिति भावः ।
३. लिबिशेनात्र ३।२३१७८' संख्या निर्दिष्टा, सा चिन्त्या। __४. लौगाक्षिगृह्य (११)व्याख्यायां देवपालः कृच्छ्रशब्दसाधकं चारायणि
सूत्रमुदाजहार--"तथा च चारायणिसूत्रम् - 'पुरुकृते च्छछयोः' । पुच्छम् २५ कृच्छम् ।" विशेषोऽस्मदीये 'सं० व्या० शास्त्र का इतिहास' ग्रन्थे ((भाग १, पृष्ठ ११३; च० संस्क०) द्रष्टव्यः ।
५. परितापे परितापनक्रियायामिति क्षीरस्वामी' इति पुरुषकारोद्धृतः पाठः (पृष्ठ ८५) । इह तु तथा नोपलभ्यते।
६. पद गतौ सूत्रव्याख्यानान्ते (पृ. २२०) 'खिद दैन्य इति दुर्गः' इत्यस्य '३० व्याख्यायां खिद्यत इति कर्मकर्तरि तु वामनः' इत्युक्तवान् स्वामी । तत्रस्था
टिप्पणी (१) अत्राप्यनुसंधेया ।।