________________
३४ तुदादिगणः (६)
२६५ (द्र० ७।३।७८) । सीदती, सीदन्ती । सिषत्सति । असदत् । सत्ता । एतयोदिौ पठितयोः (११५६५, ५६४) द्विःपाठे फलं नोत्पश्यामः । विकरणस्वरे विशेष इति वाभ्यूह्यम् ॥४७॥
१३३. अनुदात्ता उदात्तेतः।
१३४. मुच्ल मोक्षणे । इतः पञ्चानिट उभयपदिनश्च । शे ५ मुचादीनां (७।११५६) नुम् - मुञ्चति, मुञ्चते । अमुचत्, अमुक्त । मोक्ता। मुचोऽकर्मकस्य गुणो वा (७।४।५७) इति सन्यभ्यासलोपो वा-मोक्षते वत्सः स्वयमेव, मुमुक्षते । इगुपधात् किः (तु • उ० ४। १२०)-मुचिः । नमुचि:-नभ्रानपाद् (६।३।७५) इति नञ् प्रकृत्या। सिविमुचेष्ट रू च (तु. उ० ४।१६३)-मूत्रम् । वृतवदि १० (उ० ३।६२) इति सः-मोक्षः ।। १४८॥ __ १३५. लुप्लु छदने । लुम्पति, लुम्पते । अलुपत्,अलुप्त । लुपसदचर (३।१।२४) इति यङ - लोलुप्यते ।।१४६।।
१३६. विद्लु लाभे । विन्दति, विन्दते । अविदत्, अवित्त । उषविदजागरन्यतरस्याम् (तु० ३।११३८) आम् - विवेद विदांचकार । १५
आमि ज्ञानार्थस्य ग्रहणं विद इत्यदन्तनिर्देशात् । अस्य तु विवेद विभाषा गमहनविद (७।२।६८) इति वेट - विविद्वान्, विविदिवान् । अनुपसर्गाल् लिम्पविन्द (३।१।१३७) इति शः-विन्दः, गोविन्दः, अरविन्दः । वित्तो भोगप्रत्यययोः (८।२।५८)-वित्तं धनम्,
केशैवित्तः । अन्यत्र विन्नं लब्धम् । यावति विन्दजीवोः (३।४।३०) २० • णमुल्-- यावद् वेदमधीते ॥१५०।।
१३७. लिप उपदेहे । उपदेहो वृद्धिः । लिम्पति, लिम्पते । लिपिसिचिहश्च (३।११५३) इत्यङ -अलिपत । प्रात्मनेपदेष्वन्यतरस्याम (३।१।५४)- अलिप्त अलिपत । अनुपसर्गाल्लिम्प (३।।१३८) . इति शः-लिम्पः । नौ लिम्पेः (३।१।१३८ वा०)-निलिमा देवाः २५
. ॥१५॥ १. उभयत्र पाठस्य स्वरभेद एव प्रयोजनम् । अपि चेह पाठे नुम्दिकल्पोऽपि (द्र० ७।१।८०) भवति । ... २. 'क्लेशैवित्तः' पाठा० ।