________________
२६४
क्षीरतरङ्गिभ्यां व्यवायेऽपि कार्यमाहुः –विच्छायन्ती बिच्छायती, यथा जुगुप्सत इति सन्- व्यवायेऽपि तङ । यजयाच (३।३।६०) इति नङ–विश्नोऽन्तरायः । चुरादौ भासार्थः (१०।१९७)-विच्छयति ॥१४२॥
१२८. विश प्रवेशने। विशति, वेष्टा । नेविशः (१।३।१७) तङ् ५ –निविशते । अभिनिविशश्च (१।४।४७) इति कर्म-ग्राममभिनि
विशते । विभाषा गमहनविदविशाम् (७।२।६८) क्वसौ वेट-विविशिवान् विविश्वान् । पदरुज (३।३।१६) इति कर्तरि घञ्–वेशो वेश्यावाटः । नेपथ्ये व्याप्त्यर्थे वेशः । विशिपतिपदि (३।४।५६) इति णमुल् -गेहानुप्रवेशम् प्रास्ते, गेहं गेहमनुप्रवेशमास्ते, गेहमनुप्रवेशम् अनुप्रवेशम् । अशूषि (उ० १।१५१)। इति क्वन्—विश्वम् । विटपविष्टप (उ० ३।१४५) इतिविष्टपं लोकः, विशिपम् । जविशिभ्यां झच (उ० ३।१२६)-वेशन्तः पल्वलम् । वेः शालच् (५।२। २८) इति विशाल-विशङ्कटौ ॥१४३॥
१२९. मृश प्रामर्शने । अामर्शनं स्पर्शः । परामृशाति, अामर्शन इत्युक्तेः सोपसर्गः । विम्रष्टा, विमा । स्पृशमृश (३।१।४७ वा.) इत्यमृक्षत् अाम्राक्षीत् अमाीत् ।।१४४॥
१३०. णुद प्रेरणे । नुदति । तुन्दशोकयोः परिमृजापनुदोः (३।२। ५) क:-शोकापनुदः पुत्रः । नुदिस्तुदेरनन्तरं पठितः (६।२) स्वरितेत्, तस्मादिह परस्मैपदिमध्ये न पाठ्यः ॥१४५॥
१३१. शलु शातने । पाघ्राध्मा (७।३।७८) इति शीयादेशःशीयते, शदेः शितः (१।३।६०) तङ । शत्स्यति । शदेरगतौ तः (७। ३।४२) णिचि-फलानि शातयति । अशदत् (द्र० ३।१।५५)॥१४६
१३२. षद्ल विशरणगत्यवसादनेषु । सीदति सदे; सीदादेशः
२५
१. शविकरणम्, तत्कार्यं च नुमो विकल्पः ।
२. अत्र 'वेषः' इति शुद्धः पाठो द्रष्टव्यः (तु० अमर २।६।६६)। लिबिशेन नायं दोषो बुद्धः ।
३. कर्जभिप्राये क्रियाफलेऽपि परस्मैपदार्थ इह पाठ इति सायणः । धातु० पृष्ठ ३४४ । अत्र धातुवृत्तेः ३२३ पृष्ठस्थः (६।२) पाठोऽप्यनुसंधेयः ।
४. 'अवसादन' इत्येव क्षीरस्वमिन: पाठ इति पुरुषकार उक्तम् (पृ ८३)।