________________
तुदादिगणः (६)
२६३ १२५. लिश गतौ । लिशति । लेष्टा । भ्वादौ लिश अल्पीभावे' लेशति, लेशः ॥१४०॥
१२६. स्पृश संस्पर्शे। स्पृशति, स्प्रष्टा, स्पा- अनुदात्तस्य चदुपधस्यान्यतरस्याम् (६।११५६) अमागमः । स्पृशमृशकृषतृपदृपः सिज् वा (३।११४४ वा०)- अस्पृक्षत्, अस्पाक्षीत्, अस्पाक्षीत् । पद- ५ रुज (३।३।१६) इति कर्तरि घन-स्पर्श उपतप्ता' । स्पृशोऽनुदके विवन् (३।२।५८), क्विन्प्रत्ययस्य कुः (८।२।६२) इति कुत्वम्, अन्यथा वश्चादि (८।२।३६) सूत्रेण, छशां ष इति षत्वं स्यात्, ततश्चान्तर्यात् षस्य खः, खस्य वावसाने (८।४।५६) इति चāन कः, पक्षे जश्त्वेन गः,इति ग्रन्थोऽयुक्तः–पादस्पृक् उदकस्पर्शः । श्पृशेः श्व- १०
शुनौ पृ च (उ० ५।२७) पार्श्वम्, पशुः। तिथपृष्ठ (उ० २।१२) इति पृष्ठम् ॥१४१॥ ___ १२७. विछ गतौ। गुपूधूपविछ (तु० ३।१।२८) इत्यायः - बिच्छायति । विछेस्तुदादिपाठः सार्वधातुकेऽप्यायानित्यत्वे लिङ्गम् पणतिवत् विच्छति, विच्छती विच्छन्ती, तथा च शपि नित्यमिति १५ भाष्यम् (३।१।३१) प्रायः शे विकल्पम्, द्रमिडास्तु पाठबलाद् आय
१. नायं भ्वादौ पठ्यते । दिवादी (६६) तु पठ्यते । तस्य 'लिश्यते' इति भवति । दिवादिव्याख्याने (६६) तुतुदादेरेव निर्देशः क्रियते, न भ्वादेः । तस्मादपपाठोऽयम् ।
२. 'स्पृश उपतापे' (३।३।१६ वा०) इति वात्तिके तद्वाख्याने च 'उप- २० ताप' शब्दः प्रयुज्यते।
३. कस्य ग्रन्थस्य, कथं च प्रत्याख्यानं क्रियत इति न ज्ञायते । षत्वात् पूर्वं कुत्वप्रवृत्तावप्यान्तरतम्यात् 'ख' एव प्राप्नोति, षत्वेऽपि च। तथा सति को भेद इति न ज्ञायते । वयं तु मन्यामहे शकारस्य षत्वे, तस्य झलां जशोऽन्ते' (८।२।३६) इति डत्वे, तस्य कुत्वे गकारे वावसाने (८।४।५६) इति प्रक्रि- २५ यया भाव्यम्, अन्यथा पूर्वं कुत्वेन खत्वे कृतें जश्त्वप्रसंगे कुत्वमसिद्ध स्यात् पूर्वत्रासिद्धमिति नियमात् । ____४. विच्छेस्तुदादिपाठो न केवलं नुविकल्पार्थ एव, अपि तु विकरणस्वरार्थोऽपि । आयस्य नित्यत्वे उभयमपि न स्यात् तेन युक्त एव स्वामिग्रन्थः । अत्र पुरुषकारोऽपि द्रष्टव्यः (पृष्ठ ५५)। ५. नुम इति शेषः । ३०