________________
२६२ , क्षीरतरङ्गिण्या (६ ४।३२) क्त्वायां नुम्'-- मङ क्त्वा मक्त्वा । प्रोदितश्च (८॥२॥ ४५) इति नत्वम् -मग्नः । मज्जथुः (द्र० ३।३८६) । गुरोश्च हलः (३।३।१०३)-मज्जा मज्जनम्। श्वनुक्षत् (उ० १११५६) इति
मज्जाऽस्थिसारः । भृमृशीत (तु० १७) इत्यु:--- मद्गुः, न्यङ क्वादि५ त्वात् (गण० ७।३।५३) कुत्वम् । मस्जेर्नुम् च (उ० १४।७७) इत्यू
षन्-मञ्जूषा पेटा ॥१३४॥ __१२१. रुजो भङगे। रुजति । रुग्णः । पदरुज (३।३।१६) इति कर्तरि घञ्-रोगः । भिदादौ (गण० ३।३।१०४) रुजा । रुक् । उदि कूले रुजिवहोः (३।२।३१) खर-कूलमुद्र जः। नहिवृति' (६।३। ११६) इति दीर्घः-वीरुक् । रुक्मं रुचैः (द्र० ११४६४) ॥१३५॥ .
५२२. भुजो कौटिल्ये । निर्भुजति । भुग्नः। भोगः सर्पकायः' । के (३।३।५८ वा०) [भुजः ।] भुजेन कौटिल्येन गच्छतीति भुजगः' भुजङ्गः । रुधादौ भुज पालनाभ्यवहारयोः (७।२२)-भुनंक्ति, भुङ -
क्ते । १३६॥ १५ १२३. छुप संस्पर्शे । छुपति, छोप्ता ।।१३७।।
१२४. स्श रिश हिंसायाम । रुशति । अरुक्षत । रिशति । तालव्यान्तौ, प्रस्तावाद् । स्वादौ (११४५८) मूर्धन्यान्तौ-रोषति । रेषति । दिवादी रुष रोषे (४।१२३)-- रुष्यति ॥१२८-१३६॥
१. नैतत् सूत्रं क्त्वायां नुमो विकल्पं विघत्तेऽपि तु नकारस्य विभाषा २० लोपम्। .
२. मारवाड़ीभाषायां 'पेटी' इत्युच्यते । ३. काशिकादौ 'नहिवृति' सूत्रे 'रुचि' पठ्यते । क्षीरस्तु 'रुजि' पाठं मन्यते।
४. भाष्यकारस्तु 'अथवा भोगशब्दः शरीरवाच्यपि दृश्यते । तद्यथा'अहिरिव भोगैः पर्येति बाहुम्' (ऋ० ६१७५।१४) इति । अहिरिव शरीरैरिति
गम्यते' इति (५।१।६) वदन् शरीरसाधारणो भोगशब्द इति मन्यते । २५ ५. भुजगः' इत्यत्र 'अन्येष्वपि दृश्यते' (३।२।४८ वा०) इति डः। 'भुजङ्गः'
इत्यत्र खचप्रकरणे गमे: सुप्युपसंख्यानम् (३।२।३८ वा०) इति खच्, 'खच्च डिद्वा' (३।३।३८ वा०) इति डित्त्वे रूपम। तदभावे 'भुजङ्गमः' इत्यपि भवति ।