________________
तुदादिगणः (६)
२६१ पू: सर्वयोरिसहोः (३।२।४१) खच्-पुरन्दरः । ग्रहवृदू (३॥३॥ ५८) इत्यप्-आदरः। दरिदलिभ्यां भः (तु० उ० ३।१५१)दर्भः । ध्रियते । धर्ता दिधरिषते । अन्यानि भ्वादौ (६८४ सूत्रे) ग्रहणानि; धरते ॥१३०, १३१॥ ___११७. प्रछ जीप्सायाम् । जीप्सा' जिज्ञासा । इतः षद्लपर्यन्ताः ५ (६।१३०) पञ्चदशानिटः परस्मैपदिनश्च । ग्रहिल्यावयि (६।१।१६) इति सम्प्रसारणम्-पृच्छति । समो गम्यूछिप्रच्छि (१।३।२६ का०) इति तङ्-संपृच्छते । प्राङि नुप्रच्छ्योः (१।३।२१ वा०) तङ - आपृच्छते । पिपृच्छिषति-रुदविद (१।२८) इति कित् । पृष्ट्वा । किम्वचि (३।२।१७८ वा०) इति शब्दप्राट्, प्राड्विवाको निर्णता। १० न्यङ क्वादित्वात् (द्र० ७।३।५३) कुत्वम्' । यजयाचयत (३।३। ६०) इति नङ–प्रश्नः, छ्वोः शूडनुनासिके च (६।४) १६) प्रछेरनङि' इति सम्प्रसारणाभावः ॥१३२।। . ११८. वृत् । किरादयः पञ्च वर्तिताः । -- ११६सृज विसर्गे। सृजति । स्रष्टा, वश्चभ्रस्ज (८।२।३६) इति १५ षः । सृजियुजिधूजां कर्मवद्भावः श्यंश्च (तु० ३।१।८७ वा.)सृज्यति रज्जुः स्वयमेव । विभाषा सृजिदृशोः (७।२।६५) थलीटससजिथ, सस्रष्ठ । सृजिदृशोभल्यमकिति (६।१।५८) इत्यमि कृते वदवज (७।२।३) इति वृद्धिः-अस्राक्षीत् । उणादौ (द्र० उ० १॥ १५) रज्जुः ॥१३३॥
१२०. टुमस्जो शुद्धौ । शुद्धया स्नानं वडनं च लक्ष्यते । मज्जति । मस्जिनशोझलि (७।१।६०) इति नुम् - मङ क्ता । जान्तनशां विभाषा
१. 'ज्ञातुमिच्छा' पाठा० । ___२. प्राड्विवाके 'विचिर' धातोरणि कुत्वं न प्राप्नोति । तदर्थं न्यङ्क्वादित्वादित्युक्तम् । भानुजिदीक्षितेन त्वमरटीकायां (२।८।५) विवेचन विवाक: २५ (घन्) तत अर्शप्रादिभ्योऽच् (५।२।१२७) इति मत्वर्छ अच्प्रत्यय इत्युक्तम् ।
४. कस्य तन्त्रस्येदं सूत्रमिति नैव परिज्ञातमस्माभिः । पाणिनीयास्तु 'प्रश्ने चासनकाले' (३।२।११७) इति निपातनात् संप्रसारणाभावमाहुः । द्र० काशिका ६।१॥१६॥