________________
'२५८
क्षीरतरङ्गिण्यां १०४. पृङ् व्यायामे । व्यायाम उद्योगः । व्याप्रियते, वृत्तौ' विनहणात् । व्यापृतः । व्यापारः ॥११॥
१०५. मृङ् प्राणत्यागे। म्रियते । म्रियतेलुंलिङोश्च (१।३। ६१) इति तङ–अमृत, मृषीष्ट । अत एव वा ङित्त्वं पेठुः । ममार । ५ मरिष्यति । मारः । मारकः । अभिमरस् तैक्ष्ण्ये । मर्म । मर्मरः,
पचादौ (द्र० ३।१।१३४) अमरः । भुजिमृङ्भ्यां युक्त्युकौ च (तु० उ० ३।२१)-मृत्युः । भृमृशी (उ० ११७) इत्युः-मरुः । मृग्रोरुतिः (उ० ११६४)-मरुत् । मृकणिभ्यामीचिः (उ० ४।७०)-मरीचिः ।
मरूको निर्दशनः करी । हसिग (उ० ३।८६) इति तन् मर्तः, १० स्वार्थ यः (द्र० ५।४।३६वा०) मर्त्यः ॥१२०॥ .
१०६. रि पि गतौ । रियति, पियति । पिक: कोकिलः । ॥१२१, १२२।।
१०७. धि धारणे । धियति । धेता ॥१२३।।
१०८. क्षि निवासगत्योः । क्षियति । क्षेता । क्षय्यजय्यौ शक्यार्थे १५ (६।१।८१)-क्षय्यः, क्षेयोऽन्यः । निष्ठायामण्यदर्थे (६।४।६०) दीर्घः,
क्षियो दीर्घात् (८।२।४६) नत्वम् -क्षीणः । वाक्रोशदन्ययोः (६।४। ६१) -क्षीणायुर्जाल्मः; क्षितायुः, क्षीणस्तपस्वी, क्षितः । प्रतिस्तुसु (उ० १११४०) इति मन्-क्षेमम् । ष्ट्रन् (उ० ४।१५८) क्षेत्रम् ।
क्षितिः । एरच (३।३।५६) क्षयो गृहम् । भिदादौ (गण ३।३।१०४) २० क्षिया । स्वादौ (५॥३३ एकीयमते) क्षिणोति । भ्वादौ (१।१४६) क्षयति ॥१२४॥
१०६. अनुदात्ताः।
१. वृत्तौ धात्वर्थ इत्यर्थः । द्र० ६।७३ धातुसूत्रव्याख्यानम् (पृष्ठ २५४)।
२२. के वाङित्वं पेरिति न ज्ञायते । एतेन येषां धातूनां प्रत्ययविशेषे पर२५ स्मैपदमात्मनेपदं वा विधीयते। तत्र द्वौ स्वतन्त्रौ धातू ऊहितव्यौ। अस्य ङित्त्व प्रयोजनायात्र माधवीया धातुवृत्तिर्द्रष्टव्या (पृष्ड ३३७)।
३. ये जनपदे शूरास्त्यक्तात्मानो हस्तिनं व्यालं वा द्रव्यहेतोः प्रतियोधयेयुस्ते तीक्ष्णाः । कौटल्य अर्थशास्त्र १।१२॥ अत्र ३।३।५३ क्षीरस्वामिनोऽमर
टीका द्रष्टव्या। ४. तुलनीयम्-'मरूको मयूरो मृगो निदर्शने भस्तृणं त्र' ३० इति है मोणादिवृत्तिः (५८) ।