________________
तुदादिगणः (६)
२५६ ११०. षू प्रेरणे । सुवति । उपसर्गात् सुनोतिसुवति (८।३।६५) इति षत्वम् अभिषवति । सविता । सोषयते । सुसूषति, स्तौतियोरेव षणि (८।३।६१) इति नियमात् षत्वं नास्ति ।।१२७।। . १११. क विक्षेपे । किरति । किरतेहर्षजीविका (१:३।२१ वा०) इति तङ, अपाच्चतुष्पाच्छकुनिष्वालेखने (६।१।१४२ । सुट्-- अपस्किरते वृषभो हृष्टः, अपस्किरते कुक्कूटो भक्षार्थी, पस्किरते श्वाश्रयार्थी । किरतेलवने (तु० ६।१।१४०) सुट–उपस्कार' मद्रका लुनन्ति । हिसायां प्रतेश्च (६।१।१४१)-उपस्कारस्ते' जाल्म भूयात्, प्रतिस्कारः । मरणमस्त्विति । प्रतिचस्करे नखैः (शिशुपालवध ।।४७) । कि रश्च पञ्चभ्यः (७।२।७५) सनीट, अस्येटो वतो १० वा (७।२।३८) इति दीर्घो नेष्यते (द्र० ७।२।७५ काशिका)विचिकरिषति, पक्षे विचिकीर्षति । इगुपध (३।१।१३५) इति कः - किर: सूकर:, किरिश्च (द्र० उ० ४।१४३) । विष्किरः शकूनिविकिरो वा (६।१।१५०)। कृपृवृजि (उ० २।८१) इति क्युः-- किरणः । कशशलि (उ० ३।१२२) इत्यभः करभः । कवतदारिभ्य उनन् १५ द० उ० ५।५२)-करुणः, करुणा कृपा। कृतभ्यामीषन् (उ० ४। २६) - करीषः शुष्कगोमयम् । कशपकटि (उ० ४।३०) इतीरन्करीरम् अङ कुरः । कगृभ्यां किः (तु० उ० ४।१४२)--किरिः । कगकृषिः कीटन् (तु० उ० ४।१८५) किरीटम् । कवजसि (तु० उ० ५।४२) इति नः- कर्णः श्रोत्रम् । कनोरुच्च (द्र० उ० १११०६) २० -कुरुर्देशः । कगशपवृश्चतिभ्यः ष्वरच् (द० उ० ८।४७ कपाठः)कर्वरः । कृ धान्ये (३।३।३०) इति घञ्- उत्कारो धान्यस्य, निकारः,
१. अपस्कारम्' पाठा०।
२. 'अपस्कारस्ते' पाठा० । ३. भागवृत्तौ त्वस्यापि दीर्घविकल्प उक्तः । द्र० अस्मदीये भागवृत्तिसंकलने ७।२।७५ सूः म) । तेन दीर्धपक्षे 'विचिकरीषति' भविष्यति ।
४. कि रश्च पञ्चभ्यः (७।२७५) इति तु क ग धात्वोः 'इट् सनि वा' (७। ११४१) इति वि. ल्पे प्राप्ते नित्यमिटं विधत्ते । तदाह वृत्तिकृत्-किरतिगिरत्योरिट स.नि. वे ते विकल्पः प्राप्तः (७।२७५) इति । तेनात्र पक्षे इडभावप्रदर्शनं चिन्त्यम् । सम्भाव्यते दीर्घपक्ष निदर्शनाय 'विचिरीषति' इत्यस्य स्थाने लेखक-प्रमादादपपाठ०: संजातः स्यात् ।