________________
तुदादिगण: ( ६ )
२५३
रूपकल्प ( ६ | ३ | ४३ ) इति ह्रस्वः, चेलखेटकटुककाण्डं गर्हायाम् ( ६।२।१२६ ) इत्युत्तरपदाद्युदात्तत्वम्' ।।७६॥
६३. चल विलसने । चलति । चलती, चलन्ती । चल कम्पने ज्वलादिः (१।५६९)– चलः, चालः । शश्यनोनित्यम् ( ७|१|८१ ) नुम् - चलन्ती । कम्पने चलिः ( १।५४६ ) मित्-चलयति लताम् । चुरादौ चल भृतौ (१०।६२ ) - चालयति ॥ ७७ ॥
५
६४. विल संवरणे । दन्त्योष्ठ्यादिः । विलति । ग्राविलम् वेला ||७८ ॥
६५. इल स्वप्नक्षेपणयोः । इलति इला भूः । एला । एलयति ॥७६॥ १०
६६. बिल भेदने । बिलति । बिलातः । प्राबिलम् । विल्मम् * । बिल्वम् ॥८०॥
६७. णिल गहने । प्रणिलति ॥ ८१ ॥
६८. हिल हावकरणे' । हिलति । हेला । मिल इलेषण इति दुर्ग: — मिलति', मेल: ॥८२॥
६६. शिल षिल उञ्छे । शिलति । शिलम् । शिला । सिलम् । सेलु श्लेष्मातकः ॥ ८३,८४॥
१५
२. ‘आवेलम्' हस्तलेखपाठः ।
१. 'उत्तरपदान्तोदात्तत्वम्' पाठान्तरं तच्चिन्त्यं, सूत्रार्थविरोधात् । ३. 'स्वप्नप्रक्षेपणयो:' पाठा० । ५. भिदादावस्य पाठः कल्प्य ।
४. 'भावक्षरणे' पाठा० । ६. पूर्वत्र 'मील' धातुव्याख्याने ( १।३४५) 'लौकिकान्मिले: मिलति, मेलनम्' इत्युक्तं स्वामिना । तदिहान्वेष्यम् । दीपजन ( ७ | ४ | ३ ) सूत्रे मील - धातु पठता पाणिनिना मिल-धातुर्न स्वीक्रियत इति ज्ञाप्यते । अन्यथा मोलतेरमिमीलत् मिलतेरमीमिलत् इति रूपद्वयं स्यादेव, किमुपधाहस्वविकल्पेन । दुर्गोपजीव्ये काशकृत्स्न-धातुपाठेऽपि मिल श्लेषणे' (पृष्ठ १६७) पठघते ।
२५
-
७. उञ्छशिलवृत्योर्भेदः ‘ऋतमुञ्छशिलं ज्ञेयम्' इति मनुश्लोकस्य ( ४/५ ) व्याख्यायामित्थं प्रदश्यंते प्रङ गुष्ठाङ गुलिभ्यामेकैकस्य कणस्य संग्रह उञ्छ:, मञ्जर्यात्मकानेकधान्योच्च यनंशिलः । अत्र तु उञ्छशब्देन 'उच्चयः' इत्यभिप्रेतः ( द्र० ६ १७ ) । सचोभयोवृ त्त्योः समानः ।
२०