________________
२५४
क्षीरतरङ्गिण्यां
७०. लिख' प्रक्षरविन्यासे । लिखति । आलेख्यम् । पचादौ (गण. ३।१।१३४) लेखः । पञ्-लेखः, विलेखः । भिदादौ (गण० ३।३। १०४) लेखा ।।८५॥ ..
७१. कुट कौटिल्ये । कुटति । गाकुटादिभ्योऽणिन्ङित् (१।२। १)-कुटिता । उत्कुट: । कुटो घट: । कोटरः । कुटरः । कोटि: । कुटीरम् । उषिकुटि (उ० ३।१४२) इति कपन -कुटपोऽनमानम् । इगुपधात् किः (तु० उ० ४।१२०) कुटि: । कुटिकुषिभ्यां क्मलन् (उ० ४। १८७)-कुटमलम् । कुटिलः । कथं कुटित्वा ? न क्त्वा सेड् (१।२। १८) इति हि कित्त्वं बाधितम्, न ङित्त्वम् ॥८६॥ । ७२. पुट संश्लेषणे । पुटति । पुटः, पुटी । घञ्–पोटा नपुंसकम् । पोटकः : चादौ पुट संचूर्णने (१०।६७), तथा भासार्थः (१०।१९७) -पोटराति । लुट विलोडन' इति दुर्गः-लुटति । लुटिता । लुटित्वा । लुठ संश्लेषण इत्येके ।।८७। ____७३. कुच संकोचने । संकुचति, अर्थे संग्रहणात् तदुपसर्गत्वम् ।
संकुचिता । कुचित्वा । कुचौ । भ्वादौ संपर्चनादौ (१६००) संको१५ चति ॥८॥ ____७४. गुज शब्दे । गुजति, गुजिता । भ्वादौ (१।१२३ एकीयमले) गोजति, गोजिता ॥८६॥
७५. गुड रक्षायाम् । गुडति । गुडा हस्तिसंनाहः। गुडः स्वादुद्रव्यम् । भूगोलः, गोलक युग्मम्, गुलिका मौक्तिकविशेषः ॥१०॥
१. लिख धातु कुटादिष्वेके मन्यन्ते । तदाह हेमहंसगणिः - लिखत् अक्षरविन्यासे कुटादिरयम् । तेन तृजादिषु ङित्त्वाद् गुणाभावे लिखिता लिखितं लिखनीयम् । अकुटादेस्तु लेखिता लेखितुम् लेखनीयं स्यात् । न्यायसंग्रह, पृष्ठ १३७। केचन पाणिनीयास्तु गाङ्कुटादि' सूत्रे (१।२।१) कुटस्य आदिः कुटादिः,
कुट आदिर्येषां ते कुटादयः इत्युभयथा विगृहीत्वा लिखिता लिखितुम् लिख२५ नीयम् इत्यादीनां साधुत्वं ब्रुवन्ति ।
२. लोटने' पाठा० । कातन्त्रधातुपाठे 'पुट लुट संश्लेषणे' इति पाठः, काशकृत्स्ने 'षुट लुठ संश्लेषणे' (पृष्ठ १६७) । .
३. एतत्पृष्ठस्था द्वितीया टिप्पणी द्रष्टव्या।
४. द्रष्टव्यं (६।१०४) धातुसूत्रव्याख्यानम् । ३० ५. इलयोरेकत्वस्मरणात् । अत्र ५३ पृष्ठस्था टि० १ द्रष्टव्या।