SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २५२ क्षीरतरङ्गिण्यां . ५७. तृहू तृन्हू स्तृहू स्तृन्हू हिंसायाम् । तृहति । तहिता, ता । तहणम् । रुधादौ तृहि हिसि हिसायाम् (७।२४) तृणेढि, तृण्डः, तृहन्ति । तहति । तृहिता, तृण्डा । स्तृति, स्तृहति । षोपदेशाविति दुर्गः ॥६८-७१॥ ५८. इषु इच्छायाम् । 'इषुगमियमां छ: (७।३।७७) -इच्छति । तीषुसह (तु० ७।२।४८) इति वेट- एष्टा एषिता । इष्यत इतीट, इषे त्वोर्जे त्वा (माध्य० सं० १।१) । विन्दुरिच्छुः (३।२।१६६)। इष आश्वयुजः, इड् अन्नम् अस्यास्त्यत्र वा, अर्शप्राद्यच् (५।२।१२७) । इश्यशिभ्यां तकन् (उ० ३।१४८) - इष्टका । क्सुश्चेषेः (द० उ० १० १।१५४) - इक्षुः । इच्छा (३।३।१०१) साधुः । श्रुयजीषिस्तुभ्यः करणे (तु० ३।३।६५ वा०)-इष्टि: । इष्टः । दिवादौ इष गतौ (४। ७)- अन्विष्यति, इषुः । ऋयादौ इष प्राभीक्ष्ण्ये (६।५७) इष्णाति ।।७२।। ५६. मिष स्पर्धायाम । मिषति । मेषिता मेषोऽचि (द्र० ३।१। १५ १३४), के (द्र० ३।१।१३५) आमिषम् । घञ् (द्र० ३।१।१८, १६) -निमेषः ॥७३॥ ६०. किल श्वैत्यक्रीडनयोः। किलति । केलिः । के (द्र० ३।३। १३५) किलकिला रवः, अव्यक्तानुकरणं वा । किलासं सिध्मम् ॥७४।। ६१. तिल स्नेहने। तिलति । के (द्र० ३।१।१३५) तिलः । चुरादौ (१०।६१) तेलयति ॥७॥ ६२: चिल वसने । चिलति । पचादौ (गण० ३।१।१२४) चेलः चेलम, चेलट् (गण० ३।१।१३४), गहिता ब्राह्मणी ब्राह्मणिचेली, १. क्षीरस्वामी तु- तृह तृन्हू ष्टहू ष्टुन्हू हिसार्थाः' इत्येवं पुरुषकारे (पृष्ठ २५ १२१) उध्रियते । तत्र षोपदेशपाठश्चिन्त्यः । . 'इष' इत्येवार्षपाठः । द्र० पुरुषकार, पृष्ठ १०० । ३. द्र० सरस्वतीकण्ठाभरण २।३।१७७; हैमोणादि ५७५ । ४. स्त्रीत्वनिदर्शनाय पचादौ पठितं टित्पाठं निर्दिशति । इह लिबिशेन ६।३।४३ सूत्रसंख्या निर्दिष्टा, सा चिन्त्या । एषा सूत्रसंख्या तु 'घरूपकल्प' इत्यु३० तरं निर्देष्टव्या सतीह निर्दिष्टा ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy