________________
३२
तुदादिगण: ( ६ )
२४६
नोपधात् थफान्ताद् वा (१।२।२३ ) - गुफित्वा गुम्फित्वा । घञ् ( द्र० ३।३।१८,१६ ) – गुन्फो बन्धः ।।३८,३६॥
३३. उभ उन्भ पूरणे । उभति । उभौ ' ( द्र० ३ । १ । १३५) । उम्भति । उम्भिता । उम्भित्वा ॥४०, ४१॥
३४. शुभ शुन्भ शोभायें । अत एव निपातनाच् शोभा साधुः । शुभति । शुशोभ । शुभम् । प्रशोभीत् । भ्वादौ (११४६८) शोभते, शुशुभे शुभत् । रक् ( द्र० उ० २११३) शुभ्रम् । शुम्भति, शुशुम्भ, तृन्फादि ( द्र० १|१| ५६ वा० ) । भ्वादौ शुन्भ भाषणे हिंसायां च (११२६२ ) इत्यर्थभेदात् पाठः । तत्र षोपदेशः, सुम्भति सुम्भनाद्यर्थ इत्येके * ॥४२, ४३॥
३५. दृभी ग्रन्थे । दृभति । दृब्ध: । अन्दूदृन्भू ( उ० १18 ) इति दृन्भूः सर्पः ।।४४।।
१०
१५
३६. चृती हिंसाग्रन्थनयोः । चृतति, वृत्तः । सेऽसिचि कृत ( ७ | २।५७ ) इति वेट् - चर्तिष्यति चर्त्स्यति । ईदित्त्वं यस्य विभाषा ( ७ | २।१५) इति निष्ठायाम् इट्प्रतिषेधानित्यत्वार्थम् - पतितः, यङलुगर्थं वा - चरीचृतः । क्विप् ( द्र० ३।२।१७८ ) - नृत् । चर्त्यम् ( द्र० ३।१।११०) ।।४५।।
३७. विध विधाने । विधति । असुन् (द० उ०६।४६ ) वेधाः । ४६ ।
१. इगुपधज्ञाप्रीकिरः कः ( ३|१|१३५ ) इति कः । नित्यद्विवचनोऽयम् । द्र० महा० १।१।२७ ।
२. 'शोभेति निपातनात्' ( काव्या० ५।२।४१ ) इति वामनः ।
३. न केवलमर्थभेदः, अपि तु स्वरभेदोऽपि भवति शपि । पूर्वा ( ३ | १२ | पृष्ठ ३४६ ) टिप्पणी २ द्रष्टव्या ।
४. पूर्वत्र क्षीरतरङ्गिण्यां मतमिदं गुप्तनाम्नोद्धृतम् (१।२६२ पृष्ठ ६८, पं० १६ )
५. द्वितीया श्रितातीतपतित ( २।१।१४ ) इति तिपातनादिड् इति काशिका (७।२।१५) । मैत्रेयस्तु धावुधातः धावितः' इत्युदाहृतवान् ( धातुप्रदीय पृ० १०८ ) ६. स्मृतं धातुवृत्तौ (पृष्ठ ३३० ) । ७. 'विध वेधने' इत्यवाकरस्थः पाठः । पाठान्तरं तु प्रामादिकमन्धपरम्परायातमिति मल्लिनाथः नैषध टीका ३।१२७ ।
२०
२५