________________
२४८
क्षीरतरङ्गिभ्यां उज्जिझिषति । ण्यति'-भिद्योद्ध्यो नदे (३।१।११५) । क्विपि (द्र० ३।२।१७८) उत् ॥२५॥
२६. लुभ विमोहने । विमोहनं व्याकुलीकरणम् । लुभति । तीषुसह (तु० ७।२।४८) इति लोब्धा लोभिता । लुभो विमोहने (७।२। ५ ५४) इट-विलुभिताः केशाः । दिवादौ लुभ गाध्ये (४।१२६)लुभ्यति, लुब्धः ॥२६॥
२७. ऋह कत्थनयुद्धहिंसादानेषु । ऋहति । अर्हयति । रिह इति द्रमिडा:-रिहति, रेहयति ॥२७॥
२८. ऋफ ऋन्फ हिंसायाम् । ऋफति, ऋम्फति, शे ऋन्फादीना० मुपसंख्यानाद् (द्र० ७।१।५६ वा०) अनिदिताम् (६।४।२४) इति नलोपे कृते नुम्, तृन्फादीनाम् (द्र० ७।१।५६) इत्येके ॥२८,२६॥
२६. तृफ तृन्फ तृप्तौ । तृफति तर्फित्वा । तृम्फति, नोपधात् थफान्ताद् वा (१।२।२३) इति वा कित्त्वम् -तृफित्वा तृम्फित्वा। तृप तृन्प इत्येके ॥३०,३१।।
३०. तुप तुन्प तुफ तुन्फ हिंसायाम् । तुपति, तुम्पति, तुफति तुम्फति । भ्वादौ तुन्प तुम्फ पाठो (द्र० ११२८८) व्यर्थः । प्रात् तुम्पतौ गवि कर्तरि (६।१।१५८) सुट्-प्रस्तुम्पति गौः ।।३२-३५।।
३१. दृफ दृन्फ उत्क्लशे। [दृपति दृम्फति [ ॥३६,३६।। ३२. गुफ गुन्फ ग्रन्थे । गुफति, गोफित्वा गुफित्वा। गुम्फति ।
२०
१. 'क्यपि' इति शुद्धः पाठो द्रष्टव्यः । २. उद्धृतं धातुवृत्तौ (पृष्ठ ३२६) ।
३. अयं काशिकायां पाठः । भाष्यपुस्तकेषु क्वचित् 'तृम्पादीनां' क्वचिच्च 'तृम्फादीनां' इत्युभयथा दृश्यते । ऋम्फादीनामिति स्वाम्युक्तः पाठस्तु न क्वचिदुपलभ्यते।
४. प्रक्रियाकोमुद्यां (भाग २ पृष्ठ २६५) तु 'तथा चाह क्षीरतरङ्गिणी__ कारः-- तृम्प तुम्प चेत्येके' इति पठ्यते ।
५. नायं व्यर्थः, भ्वादित्वाच्छपि तास्यनुदात्तत् (६।१।१८६) इति लसार्वधातुकानुदात्तत्त्वे धातुस्वरो भवति, इह पाठात्तु विकरणस्वरः (द्र० क्षीरत० ६।१२ : पृष्ठ २४५, टि० २) ।
६. क्वचित् सूत्रं नास्ति ।