________________
तुदादिगण: ( ६ )
२४७
१६. ऋछ इन्द्रियप्रलयमूर्तिभावयोः । इन्द्रियाणां प्रलये = मोहे, मूर्तिभावे च । ऋच्छति, समो गम्यृछि ( १।३।२६ ) इति तङ [न] समृच्छते । इजादेर्गुरुमतोऽनृछ: ( तु० ३।१।३६ ) इत्याम् - प्रान ॥१७
२०. मिछ उत्क्लेशे । उत्क्लेशो बाधनम् । मिच्छति । पिछ इति द्रमिडा : - पिच्छा: श्राचामः ॥ १८ ॥
२१. जर्ज झर्झ चर्छ परिभाषणे । जर्जति । जर्जरः, झर्झरः । चर्च इति च दुर्गः ।। १६-२१॥
२२. त्वच संवरणे । संवरणम् प्राच्छादनम् । त्वचति । क्विपि ( द्र० ३।२।१८७) त्वक् । अचि ( द्र० ३|१|१३४ ) त्वचः ॥२२॥
२३. ऋच स्तुतौ । ऋचति । क्विप् ( द्र० ३।२।१७८ ) - ऋक् । १० आनर्च, आनृचुः । अचिशुचि ( उ० २।१०८ ) इतीसिः - अर्चिः ||२३|
५
२४. उब्ज श्रार्जवे । प्रार्जवं स्पष्टता । उब्जति । उब्जिजिषति, नन्द्राः संयोगादयः ( ६ |१| ३ ) इत्यत्र वक्तव्याद् बो न द्विरुच्यते । समुद्गादिसिद्धत्वाद् बोपधोऽयम्, उपध्मानीयोपधत्वे जश्त्वस्यासिद्धत्वं स्यात् । भुजन्युब्जौ पाण्युपतापयोः ( ७।३।६१ ) । उब्जेर्बले बलो - पश्च (उ० ४।१ε२) इत्यसुन् – ओजस् ॥२४॥
१५
२५. उद्भ' उत्सर्गे । उज्झति । दोपधोऽयम्, लाक्षणिकं चुत्वम् ।
१ : 'जर्च जर्छ जर्भ झर्ज परिभाषणे – जर्चति, जर्भति जर्छति, जर्झति । जर्जरः । झर्झति । झर्झरः । चर्चेति दुर्गाः ' । इति पाठा० ।
२. ' स्पष्टता ' क्वचिन्नास्ति ।
-
५. यथा तूत्तरवचनम् — ' दोपधायं, लाक्षणिकं चुत्वम्' तथा तु धातुसूत्रे 'उज्भ' इत्येव मूलपाठ इति प्रतीयते ।
२०
३. 'कारस्याप्ययं प्रतिषेधो वक्तव्यः' इति काशिकास्थवार्तिकादित्यर्थः । ४. अयं भावः - अभ्युद्गः समुद्गः इत्यादिसिद्धये केचिद् दोपधं मन्यन्ते । तत्र अभ्युद्गः समुद्ग इत्यादयस्तु द्वय पसर्गाद् गमेर्डप्रत्यये संपत्स्यन्ते । ततः बकारोपधोऽयं धातुरित्यर्थः । उब्जेर्बले बलोपश्च इति उणादिसूत्रम् (४।१६२) अपि बोपधत्वे प्रमाणम् । अपरे उपध्मानीयोपधं स्वीकुर्वन्ति, तन्मते दोपमाह २५ — उपध्मानीयोपधत्वे इति । अत्र हयवर - सूत्रस्थं, 'शषु' जश्भावषत्वे' इति वार्तिकं तद्भाष्यं चावलोकनीयम् ।