________________
२३८
क्षीरतरङ्गियां सूति (७।२१४४) इति वेट्-विधोता विधविता । विधूतः । धूम प्रोजोर्नु क् (७:३।३७वा०)-विधूनयति । धुन इति चन्द्रः (तु धातु०५६)धुनोति, विधुतः । प्रतिलूधूसूखनसहचर इत्रः(३।२।१४८) इति धवि
त्रम् । इषियुषि (उ० १११४५) इति मक् -धूमः । कृधूमदिभ्यः कित् ५ (उ० ३।७३)-धूसरः । ज्यादौ (९।१६) धुनाति, तुदादौ धू विधूनने (६।६६)–धुवति ॥६॥
१२. दुदु उपतापे। इतश्चत्वारोऽनिटः । दुनोति । दोता। दवथुः (द्र० ३।३।८६) । भौवादिकेन ग्रहणानि, दुद्रु गतौ (११६७५) - दवति ।।१०॥ ... १३. हि गतौ वृद्धौ च । हिनुमीना (८।४।१५) . णत्वम्-प्रहिणोति । हेरचङि(७।३।५६) इति कुत्वम् –प्रजिघाय । कमिमनि (उ० १७३) इति तुन्– हेतुः । मक् (द्र० उ० १।१४७)-हिमम् । मनिन् (दश० उ० ६७३)-हेम । ऊतियूति (३।३।६७) इति हेतिरायुधम्
॥११॥ १५ १४. पृ प्रीतौ । पृणोति । पर्ता। पुपूर्षति, इट् सनि बा(७।२।४१)
इति नास्त्युपदेशाधिकारात्' (द्र० ७।२।१०) ॥१२॥ शिवस्वामिकश्यपी तु दीर्घान्तमाहतुः' (धातुवृत्ति पृष्ठ ३१६) इति । प्रक्रियाकौमुदीटीकायां विट्ठलस्त्वाह-क्षीरस्वामी दीर्घमाह, अन्ये ह्रस्वम्' (पाठान्तरे 'शिवस्वामिनाम निर्दिष्टम्) (भाग २, पृष्ठ २५४) । अत्र धुञ् कम्पने इति हस्वान्तपाठ एव युक्ततरः, उत्तरत्र शिवस्वामिमतेन दीर्घान्तपाठस्योक्तत्वात् क्रयादी (६।१६) 'स्वादौ धूधुलो धुनोति धुनोति' इत्युभयं पठिष्यति क्षीर. स्वामी, एवं तुदादावपि (६६६) । अयं च चान्द्रपाठं स्वाकृत्योक्तमिति द्रष्टव्यम् । सायणस्तु घुञ् इति पठन् अन्ते 'स्वादय उभयतोभाषाः वृवर्जमनुदात्ताः । तस्यानुदात्तमध्ये पाठ ऋकारान्तोभयतोभाषानुरोधेन'- इत्याह (धातु
२४ वृत्ति पृष्ठ ३१७)।
१. मृद्रिते चान्द्रधातुपाठे तु 'धून कम्पने' इति दीर्घान्तः पठ्यते । सायणस्तु 'उभयमपीति चान्द्राः इति सुधाकरः' इत्याह (धा० वृ० पृष्ठ ३१७) । अत्र चान्द्रधातुपाठो भ्रष्ट इति प्रतीयते । 'धूञ् कम्पने' इतोऽग्रे मुद्रितग्रन्थे 'विभाषितेट्त्वात् ।
२. उपदेशे दीर्घ-ऋकारान्तादिति भावः । अयं तु सनि दीर्घः ।।