________________
२३६
क्षीरतरङ्गिण्यां ४. डुमिन प्रक्षेपणे । मिनोति, मिनुते । मीनातिमिनोति (६।१। ५०) इत्यात्त्वम्-माता, मास्यति, ल्यपि च' (६।११५०)इति प्रमाय । सनि मीमा (७।४।५४) इति गामावालहणेष्वविशेषात् (द्र० सीरदेव १०८, परि० शे० ११५) मित्सति, मित्सते। मित्रिमम् । कृवापाजि (उ० ११) इत्युण मायुः पित्तम् । भृमृशीतचरित्सरितनिमिमस्जिभ्य उः (दश० उ० ११६२) इत्युः-मयुः किन्नरः । बहुलवचनाद् (द्र० ३।३।१) आत्त्वं न । वातप्रमीः (द्र० उ० ४।१) । नप्तृमेष्ट्र (२०६२) इति जामाता । [सु]सिचिभ्याम् (तु० उ० २।२५)-मीरा ॥४॥
५. चित्र चयने । चिनोति, चिनुते । नेर्गद (८।४।१७) इति प्रणिचिनोति । विभाषा चेः (७।३।५८) इति सलिटोर्वा कुत्वम् - चिकीषति चिचीषति, चिकाय चिचाय । चिस्फुरोणौं (६।११५४) आत्त्वम्- उच्चापयति । चुरादौ (१०७६) मित्त्वात् चपयति । तो कुण्डपाय्यसंचाय्यौ,अग्नौ परिचाय्योपचाय्यसमूह्याः, चित्याग्निचित्ये च
(३।१।१३०-१३२) । क्तिन् (द्र. ३।३।९४) चितिः । अग्नौ चेः(३। १५ २०६१) क्विप-अग्निचित् । कर्मण्यग्न्याख्यायाम् (३।२।९२)
श्येन इव चीयते-श्येनचित् । हस्तादाने चेरस्तेये (३।३।४०) घञ्पुष्पप्रचायः । निवासचितिशरीरोपसमाधानेष्वाश्च कः (३।३।४१)निकायः, प्राकायमग्नि चिन्वीत', कायः, गोमयनिकायः। संघे चानौत्तराधर्ये (३।३।४२)-चैक्खिलिनिकायः । चयोऽन्यत्र । ग्रहिवृदृ (३। ३।५८) इत्यप्–निश्चयः । सुसिचिभ्यां दीर्घश्च (तु० उ० २।२५) -चीरम् । अमिचिमिदि (उ० ४।१६४) इति क्त्र:-चित्रम् ।।५।।
१. इमं स्वतन्त्रं सूत्रं विज्ञाय इतोऽग्रे लिबिशेन ६।११४१ सूत्रसंख्या निर्दिष्टा । ६।१।४१ निर्दिष्टं 'ल्यपि च' इति सूत्रं तु वेत्रः ल्यपि संप्रसारणाभावं
शास्ति । न च तस्यात्रं किञ्चित् प्रयोजनम्, इत्यही लिबिशस्याज्ञानम् । वस्तुतः २५ 'मीनातिमीनोति' इति सूत्रस्येवायं भागो ल्यप्यात्त्वनिदशनार्थः पृथङ निर्दिष्टः ।
२. द्र० 'मीरा देशसीमा' इति दश० उ० वृत्तिः ८।४३ कपाठः, हेमोणादिवृत्तिः ३६२ च। ३. “चये' पाठा० ।
४. 'चिञ् चये (१०।८१) इति धातुसूत्रतरङ्गिणी द्रष्टव्या। ५. अनुपलब्धमूलमिदम् । ६. अज्ञाता) पदम् ।