________________
॥ अथ स्वादिगणः ॥
1
(
१. बुत्र अभिषवे । प्रभिषवः क्लेदनं, संधानाख्यम् । इतः कृञन्ताः ( ५/७ ) सप्तानिटः । स्वादिभ्यः इनुः ( ३|१|७३ ) – सुनोति, सुनुते; अभिषुणोति श्रभ्यषुणोत् । उपसर्गात् सुनोति ( ८|३|६५ ) इति षत्वे प्राप्ते स्थादिष्वभ्यासेन ( ८|३|६४ ) इति नियमान्नास्ति - अभिसुषाव ५ अभिसुषुवे । सुनोतेः स्यसनोः ( ८ | ३ | ११७ ) - श्रभिसोष्यति, अभिसुसूषति । सुन्वः सुनुवः, सुन्मः सुनुमः – लोपश्चास्यान्यतरस्यां म्वोः ६ । ४ । १०७ ) । स्तुसुधूञ्भ्यः (७।२।७२ ) इति सिचीडागमः - असावीत् । सुञो यज्ञसंयोगे ( ३।२।१३२ ) शता' - सुन्वन् । संज्ञाया समज ( ३।३।१६ ) इति सुत्या । राजसूयसूर्य ( ३ । १ । ११४ ) इति राजसूयः । श्रावपि ( ३ | १|१२६ ) इति ण्यत् - प्रासाव्यम् । सोमे सुञः ( ३ | २०) क्विप् – सोमसुत् । सुयजो वनिप् ( ३।२।१०३ ) - सुत्वा । वनो र च (४/१/७ ) सुत्वरी । श्रतस्तुसु ( उ० १।४० ) इति मन् - सोमः । सुसुधागृधिभ्यः ऋन् (द० उ० ८।४२) सुरा । सुयुरुवृञो युच् ( उ० २|७४) सवनः । सुत्रो दीर्घश्च ( उ० ३।१३ ) सूना वधस्थानम् । कुसुयुभ्यश्च ( दश० उ० ७।५ ) इति सूपः ॥ १ ॥
१०
१५
२. षिञ बन्धने । सिनोति, सिनुते । सिषाय । ण्वुल् ( द्र० ३|१| १३३ ) – सायक: । परिनिविभ्यः सेव ( ८ | ३|७० ) इति पत्वम् - विषयः । क्ते - प्रसितः । प्रजिघृषिभ्यः क्तः ( उ० ३1८8 ) सितः । दाधेट्स ( ३।२।१५६ ) इति रु: - सेरुः । सितनिगमि ( उ०१/६९ ) २० इति तुन् – सेतुः । सुसिचिभ्यां दीर्घश्च ( तु० उ० २।२५ ) – सीरम् । इसिदीष्यविभ्यो नक् ( तु० दश० उ० ३।२ ) –सिनो बद्धः । कृवृजूसि (दश० उ० ५।४२ ) इति नः -- सेना ॥२॥
३. शिञ, निशाने । निशानं तनूकरणम् । शिनोति, शिनुते ता ॥ ३
१. शत्रू' इत्यस्य प्रथमान्तं पदम् । 'शत्रा' पाठा० ।
२. इतोऽग्रे - 'सुनोरिरिति दीर्घश्च - सूरीः' इत्यधिकं क्वचित् । त्रसुत्र रिन् दीर्घश्च ( दश० उ० १।३३ ) - सूरिः' इति शुद्धः पाठः स्यात् । श्रत्रास्मदीया दशपाद्युणादिवृत्तेष्टिप्पणी द्रष्टव्या (पृष्ठ २१ टि० २ ) ।
२५