SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ दिवादिगणः (४) २३१ - १२१. नितृष पिपासायाम् । तृष्यति । अतृषत् । तृषित्वा । तृषिमृषि (१।२।२५) इति तर्षित्वा । जीतः क्तः (३।२।१८७)तृषितः । तर्षः । अस्यतितृषोः (३।४।५७) इति णमुल्-द्वयहतर्षं गाः पाययति । स्वपितृषोर्नजिङ (३।२।१७२) -तृष्णक् । क्विपि (द्र० ३।२।१७८) तृट् । तृषिशुषिरसिभ्यः कित् (उ० ३।१२)- तृष्णा ॥ ५ १२२. हृष तुष्टौ। हृष्यति । प्रहृषत् । हृषितः । भ्वादौ हृषु प्रलोके (१।४६८) हर्षति, अहर्षीत्, हृष्टः । हृषेर्लोमसु (७।२।२६) इति वेट -संहृष्टानि लोमानि, संहृषितानि । विस्मितप्रतीघातयोश्च' (७।२।२६ वा०) हृष्टश्चैत्रः हृषितः, हृष्टा दन्ताः हृषिताः। नन्दी १० अस्याप्युदित्वमाह ॥११७।। १२३. रुष रोष । रुष्यति । अरुषत् । तीषुसहलुभरुषरिषः (तु० ७।४८) इति वेट-रोष्टा रोषिता । रुष्यमत्वर (७।२।२८) इति रुष्टः रुषितः । भ्वादौ रुष हिंसायाम् (द्र० ११४५८)-रोषति ।११८ १२४. डिप क्षेपे। डिप्यति । अडिपत् । तुदादौ (६।७६) डिपति । १५ चुरादौ डिप स्तिप क्षेपे (१०।१२१)- डेपयति ॥११९॥ ____ १२५. स्तूप समुच्छाये । स्तूप्यति । अस्तूपत् । तुष्टूपयिषति । चुरादौ (१।१२२)स्तूपयति । स्तूपः । स्तुप इति दुर्गः-स्तुप्यति ।१२० १२६. कुप क्रोधे । कुप्यति । अकुपत्। पचादौ कोपः । क्रुधमण्डाथेभ्यश्च (३।१।१५१) इति युच्–कोपनः ॥१२१॥ १२७. गुप व्याकुलत्वे । गुप्यति । अगुदत् । राजसूयसूर्य (३।१। ११५) इति कुप्यं सुवर्णरजताभ्यामन्यद् धनम्, गोप्यम् अन्यत् । भ्वादौ गुप गोपने (११६६६)- जुगुप्सते, गुपू रक्षणे (१।२८०) गोपायति । चुरादौ भासार्थः (१०।१९७) गोपायति ॥१२२।। १. क्षीरतरङ्गिण्यां ११४६६ सूत्रव्याख्याने 'विस्मित प्रतिवातयोश्च' इत्य- २५ पाठ: (द्र०पृष्ठ १०२, पं०१५) । २. उद्धृतं धातुवृत्तौ (पृष्ठ ३०६) । ३. पचादिगणे (३।१।१३४) कोपशब्दः साक्षान्न पठ्यते । २०
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy