________________
२३०
क्षीरतरङ्गिण्यां मासा युक्तः कालः (द्र० ४।२।३) -पौर्णमासी । सितनिगमिमसि (उ० १।६६) इति तुन् - मस्तु । बसी च इति कण्ठः ॥१०॥
१ ६. लुट विलोटने । लुट्ययति, अलुटत् । भ्वादौ (१।२१३) लोटति, अलोटीत् । चुरादौ भासार्थः (१०।१९७)-लोटयति ।११०
११७. उच समवाये । समवाय ऐक्यम् । उच्यति । उवोच । औचिचत । प्रोक उचः के (७।३।६४) । उचितम् । उचः कुश्च' इत्यसुन्-प्रोकस्, धौरोको येषां ते दिवौकस इति वृद्धिविषये दिवशब्दोऽदन्तोऽस्तीत्येके स्थलजलयोवौंकसि पररुपम् पाहुः -स्थलोकाः, स्थलौकाः, जलोकाः जलौकाः ॥१११॥
११८. भृशु भ्रन्शु अधःपतने । तालव्यान्तश्चत्वारः, पाद्य ऋदुपधः । भृश्यति । अभृशत् । भृष्टवा, भर्शित्वा । न क्त्वा सेट् (१।२। १८) कित् -भृष्टम् । बरीभृश्यते । के (द्र० ३।१।१३५) भृशम् । भ्रश्यति । अभ्रशत् । भ्रष्ट्वा, भ्रंशित्वा । भ्रष्टः । बाभ्रश्यते । भ्वादौ
(११५०१) भ्रंशते, अभ्रंशिष्ट, भ्रंशिता, बनीभ्रश्यते वाहभ्रट (द्र० १५ ३।२७६) ॥११२,११३॥
११६. वृश वरणे । वृश्यति । अवृशत् । के (द्र० ३।१।१३५) वृशो यवासः ।।११४॥ ... १२०. कृश तनूकरणे । कृश्यति । अकृशत् । के (द्र० ३।१।१३५)
कृशः । अनुपसर्गात् फल्लक्षीब (८।२।५५) इति क्ते कृशः, उपसर्गात २० तु प्रकृशितः । तृषिमृषिकृशः काश्यपस्य (१।२।२५) इति वा कित
कृशित्वा कर्शित्वा ऋतन्यजि (उ० ४।२) इति कृशानुः ॥११५॥
१. विलोडने' पाठा। . २. अनुपलब्धमूलम् । तुलनीयम् – 'उच्यङ्केः क च' हेमोणदि: ६६५॥ उज्ज्वलदत्तादयस्तु उ ४।२१५ सूत्रवृत्तौ बाहुलकाद् व्युत्पादयन्ति ।
३. क एत इति न ज्ञयाते । न चान्यत्र मतमिदं दृश्यते (द्र अमरक्षीरटाक २।१।७)। . ४. सत्यादिसाहचर्याद् भौवादिकस्य भ्रशेरेव नीक्सूत्रे (७।४।८४) ग्रहणम्, तेन देवाकिकस्य बाभ्रश्यत इत्येव भवतीति भाव: (द्र० धातुवृत्तिः पृष्ठ ३०६)।