SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २२८ क्षीरतरङ्गिण्यां ५ १०२. वृत् । शमादिरन्तर्गणः । १०३: असु क्षेपणे । अस्यति । अस्यतेस्थुक् (७।४।१७)-निरास्थत् । अस्यतिवक्तिख्यातिभ्योऽङ् (३।११५.२) इति कर्म कर्तरि आत्मनेपदे ऽप्यङ-उपास्थेतां कुण्डे स्वयमेव । उपसर्गादस्यत्यू होर्वा वचनम् । (१।३।२६ वा.) तङ -निरस्यते, निरस्यति । नेर्गद (८। ४।१७) इति प्रण्यस्यते । अस्त्वा असित्वा । अस्तः । अस्यम्' । शृस्वस्निहि (उ० १।१०) इत्यु:-असवः। असेरुरन् (उ० १।४२) -- असुरः । सुञ्यसेऋन् (२। ६७ उच्ज्वल) स्वसा । असिसजिभ्यां क्थिन् (उ० ३।१५४)-अस्थि । अस्यतितृषोः क्रियान्तरे कालेषु (३। २१५७) इति णमुल्-द्वयहात्यासम् अजाः पाययति । इन् (द० उ० १।४६) - असिः ॥६७।। . १०४. यसु यत्ने । यसोऽनुपसर्गात् संयश्च (३।११७१,७२) इति वा श्यन् –यस्यति यसति, संयस्यति । अयसत् । यस्त्वा, .यसित्वा । आयस्तः । न पादमि (१।३।८६) इति तङ -प्रायासयते ॥६॥ १५ १०५. जसु मोक्षणे । जस्यति। अजसत् । जस्त्वा, जसित्वा। नमिकम्पि (३।२।१६७) इति र:-अजस्रम् । चुरादौ जस' हिंसायाम् (१०।११७)-उज्जासयति ॥६६॥ १०६. तसु उपक्षये । तस्यति । लोट् सिपि-तस्य । अतसत् । तस्त्वा, तसित्वा। वितस्तिः (द्र० उ० ४।१८०), वितस्ता ॥१००। १०७. दस च । दस्यति । अदसत् । दस्त्वा, दसित्वा । वा दान्तशान्त (७।२।२७) इति दस्तः, दसितः । रक् (द्र० उ० २।१३) दस्रो ___१. ऋहलोय॑त् (३।१।१२४) इति ण्यति 'प्रास्यम्' साधु । बाहुलकाद्वा यत्। २. चुरादौ 'जसु' इति पठ्यते । 'जस ताडने' इत्यपि चुरादौ (१०।१६४) २५ पठ्यते । यथा क्षीरतरङ्गिण्या: पाठस्तेनेदमपि सम्भाव्यते'जस ताडने' जसु हिंसा याम्, इत्तुभयोरत्र पाठः स्यात् । लेखप्रमादेन 'ताडने जसु' इति मध्यवर्ती .. पाठो नष्ट: स्यात्। ३. सर० कण्ठा० २।२।१३४॥ हैमोणादि २०० । ४. उभयोरश्विनोद॑स्रनासत्यौ नामनी स्तः, परन्तु साहचर्याद् उभावपि ३० दस्रौ नासत्यौ वोच्यते ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy