________________
दिवाादिगणः (४)
२२७
९८. भ्रम अनवस्थाने । अनवस्थानं देशान्तरगमनम्। वा भ्राश (३।११७०) इति भ्राम्यति भ्रमति । अभ्रमत् । भ्रान्त्वा भ्रमित्वा। भ्रमेइचडू: (उ० २।६८)-भ्रूः । भ्वादौ भ्रम चलने ( १५८६) -- भ्रमति भ्रम्यति ॥६३॥ ___EE. क्षमूष सहने। क्षाम्यति । अक्षमत् । क्षन्ता क्षमिता (द्र० ५ ७।२।४४) । क्षान्त्वा क्षमित्वा । भ्वादौ (१।२६६) क्षमते, अक्षमिष्ट । षित्त्वात् (द्र० ३।३।१०४) क्षमा। बाहुलकात्' शान्तिः । अत एव क्षम् सहन इति सभ्याः ॥१४॥
१००. क्लम ग्लानौ । क्लाम्यति क्लामति । वा भ्राश (३।१। ७०) इति ष्ठिवुक्लम्वाचमां शिति (७।३।७३) इति दीर्घः । अक्ल- १० मत ॥६५॥
१०१. मदी हर्षे । माद्यति अमदत् । मदिता। मत्तः । हर्षग्लपनयोमित् (द्र० ११५५२)-मदयति, अन्यत्र - उन्मादयति । मदोऽनुपसर्गे (३।३।६७) ऽप् -मदः । प्रमदसंमदौ हर्षे (३।३।६८)। . गदमद (३।१।१००) इति यत् - मद्यम् । उग्रंपश्य (३।२।३७) इतीरंमदो मेघज्योतिः । प्रलङ्कृत्र (३।२।१३६) इतीष्णुच् --उन्मदिष्णुः । इषितिमिमदि (द० उ० ८।२६ कपाठः) इति किरच - मदिरा । कृषूमदिभ्यः कित् (उ० ३।७३)--मत्सरः । ऋतन्यजि (उ० ४।२) इति मत्स्यः । मत्सी गौदादिः (द्र० गण० ४।१।४१) । जनिदाच्यु (उ० ४.१०४) इति मत्सः, मच्छ इत्येके । चुरादौ मद तृप्तिशोधने १० (१०।१५१)-मादयते ॥६६॥
१. "कृत्यल्युटो बहुलम्" (३।३।११३) इति बहुलग्रहणेन षित्त्वेऽपि क्तिन् भवतीति भावः । लिबिशेन त्वत्र भ्रान्त्या "बहुलमतेन्निदर्शनम्” (१०।३२४) इति गणसूत्रस्य संख्या निर्दिष्टा ।
२. धातुवृत्तौ (पृष्ठ ३०६) त्वित्थं स्वामिपाठ उध्रियते -'तथा च २५ स्वामी केचिदत्रापि क्षमूष् इति षितं पठन्ति, तदसत् । क्षम् सहन इति सभ्या'। अत्र त्वन्यथा पाठ उपलभ्यते ।
३. 'मत्स्यः मत्स इत्येके' पाठा० । पञ्चपाधुणादिवृत्तिषु 'मत्स्य' इत्येवं व्युत्पद्यते । मत्स्यशब्दस्य पूर्वत्र (उ० ४।२) व्युत्पादनादत्र 'मत्स' इत्येवशुद्धः पाटः । एके नाम्ना चात्र दशपादीवृत्तिः स्मर्यते, तत्र (१०।१५) हि 'माद्य- ३० तीति मच्छः मत्तः पुरुषः' इति व्युत्पाद्यते ।