________________
५
६५. तमु काङ्क्षायाम् । ताम्यति । प्रतमत् । तन्त्वा तमित्वा । तान्तः । घञ् ( द्र० ३।३।१८,१६ ) - तमः । गौरादौ ( द्र० गण० ४। १।४१ ) तमी रात्रिः । श्रमितम्योर्दीर्घश्च ( उ० २।१६ ) – ताम्रम् । असुन् (द० उ० ६।४६ ) - तमस् । क्रमितमिस्तन्भामत इच्च (द० उ० १।५० ) इति तिमिर्मत्स्यः । प्रत्यविचमि ( उ० ३।११७ ) इत्यसच् - तमसा नदी ॥६०॥
१०
२२६
क्षीरतरङ्गिण्यां
४। १/४१ ) शमी वृक्षः । शान्तिः । वा दान्तशान्त ( ७।२।२७ ) इति शान्तःः शमितः । शकिशम्योनित् ( उ० १।११२ ) शमलम् । जनिदाच्युप् ( उ० ४। १०४ उज्ज्व० ) इति शण्ठः । शमेः खः ( उ० १ । १०२ ) - शङ्खः । शमे: ( उ० १।६६ ) - शण्ढः ॥ ८६ ॥
६६. दमु उपशमे । दाम्यति । अदमत् । दान्त्वा दमित्वा । न पादमि ( १/३/८६ ) इति तङ - दमयते । नन्द्यादौ ( गण० ३ | १ | १३४) कुलदमनः, संज्ञायाम् ( ३।२।४६ ) अरिन्दमः । वा दान्तशान्त (७/१२७ ) इति दान्तः, दमितः । व्यवस्थितविभाषया । दान्तो ब्रह्म१५ चारिणि । दमेर्डोस् (द० उ० ६।४३ ) - दोर्बाहुः । हसिमृग्रिण्वा ( उ० ३।८६ ) इति तन् - दन्तः । दमेरूनसिः (द० उ० ६।६५ ) - दमूना वह्निः । घिनि ( द्र० ३।२।१४१ क्षीरपाठः ) – दमी ॥१॥
.४
६७. श्रमु तपसि खेदे च । श्राम्यति । श्रमत् । श्रान्त्वां श्रमित्वा । श्रान्तः । श्रम्यम् । नन्द्यादौ ( द्र० गण० ३ । १ । १३४ ) श्रमणः । २० विश्रामः, विश्रमोऽपीष्टः ॥ ६२ ॥
२५
१. क्वचिदुणादिवृत्तौ ' शण्ढ' पदमनेन व्युत्पाद्यते, तच्चिन्त्यम् । शमे: ( उ० १।६९ ) इत्यनेन तस्य सिद्धत्वात् । दशपाद्याम् (१०।१५ ) जनिदाच्यु-सूत्रे शङ्ख पदमपि व्युत्पाद्यते, तदपि चिन्त्यम्, तस्य शमे: ख: ( उ० १ । १०२ ) इत्यनेन सिद्धत्वात् । २. ‘तमोऽल्पदेशः' पाठा० ।
३. 'नमसाख्या' पाठा० ।
४. 'अग्नि' पाठा० ।
५. पाणिनीयास्तु 'अनाचमिकमिवमीनामिति वक्तव्यम्' ( ७।३।३४) इत्यत्र विश्रमेरप्रतिषेधात् 'विश्रम' इत्येव न्याय्यं मन्यन्ते ( द्र० काशिका ७।३। ३४) । क्षीरस्वामी त्वत्र चान्द्रमतमाश्रित्य ( द्र० चान्द्रवृत्ति ६ । १ । ४२ ) पाणिनिसम्मतो विश्रमशब्दोऽपीष्ट इत्याह ।