________________
दिवादिगणः (४)
२२५
८८. दुह जिघांसायाम् । क्रुधद्रुह (१।४।३७) इति शत्रवे दुह्यति । वा द्रहमुहष्णुहष्णिहाम् (८।२।३३) कुत्वम् -द्रोग्धा द्रोढा, द्रोहिता । सत्सूद्विष (३।२।६१) इति क्विप् - मित्रध्रुक्, मित्र ध्रुट् । अद्रुहत् ।।८५ __८६. मुह वैचित्ये । वैचित्त्यमविवेकः । मुह्यति । मोग्धा, मोढा, मोहिता । मुग्धः, मूढः । अमुहत् । न पादमि (१।३।८६) इति तङ ५ -परिमोहयते । मुहेः खो मूर्च (उ० ५।२२)-मूर्खः ॥८६॥ ____६०. ष्णुह उगिरणे । स्नुह्यति । सुष्णोह । स्नोग्धा, स्नोढा, स्नोहिता । स्नुग्धः, स्नूढः । अस्नुहत् ॥८७॥ . ___६१. ष्णिह' प्रीतौ। स्नियति । सिस्नेह । स्नेग्धा, नेढा स्नेहिता । स्निग्धः स्नीढः । अस्निहत् । ऋत्विग्दधृग् (३।२।१६) इत्यु- १० - ष्णिक छन्दः । चुरादौ स्नेहयति' ८८॥ ____६२. वृत् । रधादिवृत्तः । एतदन्तः पुषादिरित्येके । अतोऽग्रे अशमीत्, अतमीत्, अदमीत्, अश्रमीत्, अभ्रमीत्, अक्षमीत, अलोटीत्, अक्लेदीत्, अकोषीत्, अहर्षीद् इत्याधुदाजह.॥ ___६३. अनुदात्ता उदात्तेतः।
६४. शमु उपशम । इतो गृध्यन्ताः (१३६) षट्चत्वारिंशत् सेटः परस्मैपदिनश्च । शमामष्टानां दीर्घः श्यनि (७।३।७४)- शाम्यति । अशमत् । शमोऽदर्शने (१।५५८) मित् - शमयति रोगम् । दर्शने तुनिशामयति रूपम् । शमिता । शान्त्वा शमित्वा । शान्तः । पोरदुपधात् (३।१।१८)-शम्यम् । क्विप् (द्र० ३।२।७६)-प्रशान, मो २० नो धातोः (८।२।६४), तस्य पूर्वत्रासिद्धत्वान् नलोपः प्रतिपदिकान्तस्य (८।२।७) नास्ति । शमित्यष्टाभ्यो घिनिण (तु० ३।२। १४१)-- शमी । घत्र (द्र० ३।२।१८,१६) - शमः । गौरादौ (गण०
१. 'स्निहेति क्षीरस्वामी' इति उध्रियते पुरुषकारे (पृष्ठ १:२) ।
२. चुरादौ नायं साक्षात् पठ्यते । तत्र 'स्निह स्नेहने, स्मिट इत्येके' २५ (१०।३२) इत्येकीयं मंत पठ्यते।
३. धातुवृत्तौ (पृष्ठ ३०४) अनूद्य निराकृतमिदं मतम् । ४. 'चतुश्चत्वारिंशत्' पाठा० । चिन्त्यमिदम्, षट्चत्वारिंशन धातूनां
पाठात् ।