________________
१०
क्षीरतरङ्गिण्यां
६६. लिश श्रल्पीभावे । लिश्यते, लेष्टा, लेश: । तुदादौ ( ६ | १२५) लिति । ॥६७॥
७०. श्रनुदात्ता श्रनुदात्तेतः ।
७१. राघोऽकर्मकाद् वृद्धावेव । इतः स्निहान्ता ( १२ ) एक५ विंशतिरनिटः परस्मैपदिनश्च । राघ्नोतेः ( ५।१९ ) अकर्मक क्रियाद् वृद्वयर्थे ध्यन् राध्यति । सकर्मकाद् वृद्धरेन्यत्र च श्नुः - राध्नोत्यो - दनम्, पचतीत्यर्थः । चुरादौ' राधयति ||६८ ||
२२२
७२. व्यध ताडन । ग्रहिज्या ( ६ | १|१६ ) इति सम्प्रसारणम् विध्यति । लिट्यभ्यासस्य ( ६ । १ । १७ ) - विव्याध । व्यद्धा । श्याद्व्यध ( ३ । १ । १४१ ) इति णः - व्याधः । नहिवृति (६ | ३ | ११६) इति क्वौ दीर्घः - मर्मावित् । पृव्यधिभिदि ( तु० उ० १।२३ ) इति कु: – विधु: । व्यधजपोरनुपसर्गे ( ३।३।६१ ) - व्यधः, प्राव्याधः । घञर्थे कः ( द्र० ३ | ३|५८ वा० ) - प्राविधम् । ६६
७३. पुष पुष्टौ । श्रकर्मकममुमाहुः - वराह इव पुष्यति । पुषादि - १५ द्युतादि ( ३|१|५५) इति ङ - प्रपुषत् । प्रागणन्तात् पुषादयः । पोष्टा । पुष्यसिद्धौ नक्षत्रे ( ३।१।११६) | भ्वादौ ( १।४६२ ) पोषति । यादौ ( 1६० ) पुष्णाति । चुरादौ पुष धारणे (१०।१६५ ) - पोष - यति ॥७०॥
३०
७४. शुष शोषणे । शुष्यति, प्रशुषत् । शुषेः कः ( तु० ८ २२५१ ) २० - शुष्कः । ऊर्ध्वं शुषिपुरोः ( ३।४।४४ ) णमुल् - ऊर्ध्वशोषं शुष्कः अविसिविशुषिभ्यः किद् (द० उ० ७।३०) इति मन् - शुष्मं ' बलम् । शुष्मेति लक्ष्यम् । शुष्मा बर्हिः ॥ ७१ ॥
७५. तुष प्रीतौ । तुष्यति, प्रतुषत्, तोष्टा ॥७२॥
1
७६. दुष वैकृत्ये । वैकृत्यं रूपभङ्गः । दुष्यति, प्रदुषत्, दोष्टा । २५ दोषो णौ ( ६।४।६० ) इत्युपधाया ऊत् - दूषयति । वा चित्तविरागे ( ६ |४|११ ) - चित्त दोषयति, चित्तं दूषयति । नन्द्यादौ ( द्र० गण० ३ | १|१३४ ) दूषणः । कषिदूषिभ्यामीकन् ( उ० ४।१६ ) – दूषीका नेत्रमलम् ।।७३॥
१. क्षीरतङ्गिण्यां चुरादौ नैव पठ्यते ।
२. लोके ' शुष्म' इति नान्तो नपुसकलिङ्गः प्रयुज्यत इत्यर्थः ।