________________
२१७
दिवादिगणः (४) ४२. पूरी प्राप्यायने । प्राप्यायनं वृद्धिः । पूर्यते । पूरिता । पूर्णः (द्र० ७।२।१४) । पूर्तिः (द्र० ७।२।६) । दीपजनबुध (३।११६१) इति कर्तरि वा चिण्-अपूरि अपूरिष्ट। वा दान्तशान्त (७।२।२७) इति ण्यन्तात् पूर्णः पूरितः । चर्मोदरयोः पूरेः (३।४।३१) णमुल् - चर्मपुरं भुङ क्ते, वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम् (३।४।३२)- ५ गोष्पदप्रवृष्टो देवः, गोष्पदपूरं वृष्टो देवः । ऊर्वे शुषिपूरोः (३।४। ४४) - ऊर्ध्वपूरं पूर्णः ।।४२॥
४३. तूरी गतित्वरणहिंसनयोः । गतेस्त्वरणे हिंसने च । तूर्यते । तूरिता । तूर्णः । तूर्यम् । तूर इति दुर्गः ॥४३॥ __४४. घरी जूरी हिसावयोहान्योः। घूर्यते। घूरिता। घूर्णः । १० जूर्यते जूरिता । जूर्णः । गूरी च इति दुर्गः ॥४४,४५।। ।
४५. धूरी हिंसागत्योः । धूर्यते । धूः ।।४६॥ ४६. शूरी हिंसास्तम्भनयोः । शूर्यते । शूरः ॥४७॥ ४७. चूरी दाहे । चूर्यते । चूर्णः ॥४८।।
४८. तप ऐश्वर्ये । तप्यते । अन्ये तु तप संताप (११७१२) इत्य- १५ स्यैव भ्वादेरैश्वर्ये संतापे च श्यंस्तङौ वा' मन्यन्ते, वा" ग्रहणाद् ऐश्वर्येऽपि भ्वादिरित्येके--प्रतपति । नन्द्यादौ (गण० ३।१११३४) तपनः संज्ञायाम् । द्विषन्तपः, परन्तपः (द्र० ३।२।३९) । पत इति द्रमिडाः' -पत्यते, पतति, अपतिष्ट, अपप्तत् ।।४।। . ४६. वावृतु वरणे । वावृत्यते । ततो वावृत्यमाना सा रामशाला- २०
मविक्षत इति भट्रिः (४।२८) । अन्ये स्वादेरेव (११५०४) वरणे दिवादित्वं वा मन्यन्ते । तेन वरणे द्यु तादि कार्य न भवति--प्रतिष्ट, वतिष्यते विवतिषते ॥५०॥
१. अनेन ज्ञाप्यते उतरसूत्रस्थं वाग्रहणं केषाञ्चिन्मते पूर्वसूत्रे संबध्यते । अत्र माधवीया धातुवृत्तिरपि द्रष्टव्या (पृष्ठ २६३) ।
२. उद्धृतमिदं धातुवृत्तौ (पृष्ठ २६३) । नरुक्ताः 'पत्यते' इत्यैश्वर्यकर्मसु पठन्ति (निघण्टु२।२१)।