________________
क्षीरतरङ्गिण्यां
५०. क्लिश उपतापे । क्लिश्यते । परार्थे क्लिश्यतः सतः' इति तु लक्ष्यम् । ऋचादौ क्लिशू विबाधने ( १।५४ ) - क्लिश्नाति । क्लिश: क्त्वानिष्ठयोः (७।२।५० ) वेट् - क्लिष्ट्वा क्लिशित्वा । मृडमृद (१। २।७ ) इति कित्- क्लिष्ट, क्लिशितः । निन्दहसक्लिश ( ३1२1 ५ १४६ ) इति वुञ् – क्लेशकः । क्लिशेरी चोपधायाः कल्' लोपश्च लोनाम् च (दश० उ० 818 ङपाठः ) कीनाशः । क्लिशेरल्" लोपश्च लः ( दश ० उ० ६ । २ ) - केश: । किशोरादयश्च ( द्र० उ० १३६५ ) इति किशोरः । भ्वादौ क्लेश व्यक्तायां वाचि ( द्र० १/४०० ) - क्लेशते । ५१
५१. का दीप्तौ । काश्यते । काशः । प्रचकाशत् ( द्र० ७।४। १० २ ) । इकः काशे ( ६ | ३|१२३ ) दीर्घः – प्रतीकाशः, संकाशः, नीकाशः, अवाकाशः । उणादौ ( द्र० २ २ ) काष्ठम् । भ्वादौ ( (१1 ४२८) काशते ॥५२॥
१५
२१८
३०
1
५२. वाट शब्दे । वाश्यते । वाशितम् । प्रववाशत् । एतावनृदितावित्येके चीकशत्, प्रवीवशत् । कथं चाकशीति, वावशीति प्रकृत्यन्तरत्वात् । वाशा, वाशिका । नन्द्यादेर् (गण० ३|१| १३४ ) ण्यन्तात् वाशनः । मन्दिवाशि (११३८ ) इत्युरच् - वाशुरो गर्दभः । * ॥५३॥
५३. उदात्ता श्रनुदात्तेतः ।
५४ मृष तितिक्षायाम् । इतः पञ्च स्वरितेतः; द्वौ सेटौ, त्रयो२० ऽनिटः । मृष्यते, मृष्यति, मर्षिता । परेमृषः ( १।३।८२ ) परस्मैपदम् -- परिमृष्यति । मृषस्तितिक्षायाम् (१।२।२० ) सेण् निष्ठा न कित्मर्षितः । भाषायां शासियुधि ( ३ | ३ | १३० वा० ) इति युच् - दुर्मर्षणः । नन्द्यादौ ( गण० ३ । १ । १३४ ) मर्षणः । तृषिमृषिकृषेः काश्यपस्य ( १।२।२५ ) इति वा कित् मर्षित्वा मृषित्वा । चुरादौ (१०| २३८) आधृषाद् वा - मर्षयति मर्षति । तुदादौ मृश श्रामर्शने ( ६ । १२९) तालव्यान्तः ॥ ५४ ॥
I
२५
५५. ईशुचिर् पूतिभावे । पूतिभावः क्लेदः । शुच्यते, शुच्यति ।
१. अनुपलब्धभूलम् । २. दशपाद्यां 'कन् - रन्' इत्यसंहितया निदशः । ३. द्र० क्षीरत० ११४२८ उपधाह्रस्वोऽत्र छान्दसः ।
४. इतोऽग्रे 'स्वादौ वाशते' इत्यधिकं क्वचित् । भ्वादौ नायं पठघते ।