________________
२१६
स्तनि हृषिपुषिगदिमदिधुषिगडिमण्डिजनिनन्दिभ्यो णेरिलुच्' (द० उ० १।१४० कपाठः) जनयित्नुः । जनेष्टो लोपश्च (द० उ० ५१४ ) - जटा । जत्र्वादयश्च (उ० ४।१०२ ) इति जत्रुः । श्रदृन्भू (तु० उ० १।३ ) इति जम्बुः । कृञादिभ्यः संज्ञायां वुन् ( उ० ५।३५ ) – जनकः, ५ जायतेऽस्याम् ( द्र० ३ | ३ | ११७ ) इति जननी । उपसर्गे च संज्ञायां ( ३।३।ε९) ड: - प्रजा । श्रनौ कर्मणः (तु० ३।२।१०० ) – स्त्रीम् अनुजातः स्त्र्यनुजः । अन्येष्वपि ( ३।२।१०१ ) - पूर्वजः । गत्यर्था कर्मक (३।४।७२ ) इति क्तः - पुमांसमनुजातः जनः सकर्मकार्थम् । श्रलं - कृञ. ( ३।२।१३६ ) इतीष्णुच् – प्रजनिष्णुः | जनसन ( ३/२/६७) १० इति विट्, विड्वनोरनुनासिकस्यात् ( ६/४/४१ ) – अब्जा:, गोजाः, ऋतजाः, अद्रिजाः ॥४०॥
,
क्षीरतरङ्गिष्यां
1
४१. दीपी दीप्तौ । दीप्यते । दीपिता । दीप्तः ( द्र० ७।२।१४ ) | दीपजनबुध ( ३।१।६१) इति कर्तरि चिण् वा - प्रदीप प्रदीपिष्ट । भ्राजभास ( ७।४।३ ) इति वा ह्रस्वः प्रदीपिपत् प्रदिदीपत् । सूददी१५ पदीक्षश्च ( ३ | २ | १५३ ) इति तृन्, युच् प्राप्तः ( द्र० ३|१|१४६ ) - दीपिता । नमिकम्पिस्मि ( ३।२।१६७ ) इति रः – दीप्रः । अच् (द्र० ३।१।१३४) – दीपः, प्रदीपः ॥ ४१ ॥
-
यज्जर्ती हूणान् ' (१।२८१ ) इत्युदाहरणे चन्द्रेण स्वकालिकस्य कस्यचिज्जर्त राजस्य लोकप्रसिद्धविजयः स्मर्यंते । हैमोणादिवृत्तौ ( २०० ) प्रप्ययं राजा स्मर्यंते । २० रमेशचन्द्रमजुमदारेण चान्द्रवृत्तेः पाठः 'अजयद् गुप्तो हूणान्' इत्येवं विना प्रमाणं परिवर्त्य चन्द्रो गुप्तकाले बभूवेति मिथ्या कल्पना कृता ( द्र० ए न्यू हि० आफ दि ई०पो० भाग ६, पृ० १३७ ) | चन्द्रकालनिर्णयाय द्रष्टव्योऽस्मदीयः 'सं० व्या० शास्त्र का इतिहास' ग्रन्थ : ( भाग १, पृष्ठ३६८ - ३७० च० संस्क० )
१. अत्र लिबिशेन हैमोणादिसंख्या ( ७९७ ) निर्दिष्टा ।
२. अत्र कदाचित्पाठभ्रंशः स्यात् । अन्यथा सप्तम्यभावे उपपदसंज्ञायां अभाव:, तदभावे समासाभावः, तदभावे रूपासिद्धि: प्रसज्यते ।
२५
३. गत्यर्थाकर्म कसूत्रे जनग्रहणम् इति शेषः । अत्र सकर्माकर्मत्वविचारो धातुवृत्तौ सम्यक् प्रपञ्चितः, तत्रैव द्रष्टुमर्हः (पृष्ठ २९१) ।
४. सर्व एवैते एकस्यामेव श्रुतौ ( ऋ० ४।४०।५) क्रमशो निर्दिष्टाः ।
;