________________
दिवादिगणः(४)
२१५
नानि ॥३६॥
३६. अनुदात्ताः।
४०. जनी प्रादुर्भावे । प्रादुर्भाव उत्पत्तिः । इतो वान्ताः (५२) चतुर्दश सेट आत्मनेपदिनश्च । ज्ञाजनोर्जा (७।३।७६) जायते । ये विभाषा (६।४।४३)-जायते जन्यते, जाजायते जञ्जन्यते । जनिता। ५ जनः । अभिजायतेऽनेनेत्यभिजनः । ईडजनोर्वे च (७।२।७८) इतीट् - जनिषे, जनिध्वे । गमहनजन (६।४।१८) इत्युपधालोपः -- जज्ञे । दोपजनबुध (३।११६१) इति कर्तरि चिण् वा-अजनि अजनिष्ट । जनिवध्योश्च (७।३।३५) इति वृद्धि स्ति। जनखनसनां सञ्झलोः (तु० ६।४।४८) लोपः- जातः । जनीजष (११५५४) इति मित् - १० जनयति । भव्यगेय (३।४।६८) इति कर्तरि-चैत्रो जन्यः। मनिन् (दश० उ० ६७३) जन्म । जनेरुसिः (उ० २।११५)- जनुस् । जनेरठरः जठरम् । जने: को जङ्घ च (द० उ० ३।७०)- जङघा। जनिघसिभ्यामिण (उ० ४।१३०), जनिवध्योश्च (७।३।३५) इति वृद्धिनिषेधः- जनिः। इसनि (उ० १॥३) इति अण् - जानुः। फलि- १५ पाटि (उ० १।१८) इति जतु। कमिमनिजनि (उ० ११७३) इति तुन्– जन्तुः । यजमनि (उ० ३।२०) इति युच्-जन्यु । जनेर्यक् (उ० ४।१११)-जाया। जनेस्तोरश्च (द० उ० ६।२५) जर्त.।
१. इतोऽग्रे लिबिशेन घुसंज्ञाविधायकसूत्रसंख्या (१।१।२०) निर्दिष्टा । सा चिन्त्या । ग्रहणशब्देऽधिकरणे ल्युट्, तेन येषु सूत्रेषु घुनिर्देशस्तानि घुग्रहणा- २० न्युच्यन्ते । तुलनीयम् -तत्राणग्रहणेष्विण्ग्रहणेषु च सन्देहो भवति' (लण् सूत्रभाष्ये) इति ।
२. नास्ति क्वचित् । __ ३. नहीदं सूत्र लोपं शास्ति, किन्तहि ? आत्त्वम् । तेन 'प्रात्त्वम्' इति युक्तः पाठ इष्यते । लिबिशेन नैषाऽशुद्धिर्बुद्धा।
४. दशपायां 'जनेरर ठः' (८६८) इत्येवं पठ्यते । यथा त्वत्र पाठः २५ तथा जनेः 'अठर' प्रत्यये न रूपसिद्धिर्भवति । तेन कदाचिदत्र दशपादीपाठवत् पाठः स्यात् । लेखकप्रमादेन रठयोविपर्यासः संजातः स्यात् ।
५. अत्र लिबिशेन हैमोणादिसूत्रनिर्देशः (१००) टिप्पण्यां कृतः ।
अत्रेदमपि बोध्यम् - जर्तशब्दः प्रायेण सर्वेष्वेवोणादिसूत्रेषु व्युत्पाद्यते । महाभारते सभापर्वणि (४७।२६ कुम्भवोण.) जर्ताः स्मर्यन्ते । चन्द्रवृत्तौ 'अज- ३०