________________
२११
दिवादिगणः (४). सुहितः । वह षुह संभक्तो' इति दुर्ग:-विषह्यति ॥२१॥
१६. उदात्ता उदात्तेतः ।
२०. जष् झष वयोहानौ । इतश्चत्वारः सेट: । जीर्यति। जरा द्र० ३।३।१०४) । वा जभ्रमुत्रसाम् (६।४।१२४) इत्येत्वाभ्यासलोपौ वा--जजरु, जेरुः । जस्तन्भु (तु० ३।११५८) इति वाङ–अजरत् ५ अजारीत् । वृतो वा (७।२।३८) इतीटो दीर्घो वा-जरिता जरीता । इट सनि वा(७२।४१) जिजीर्षति जिजरिषति जिजरीषति । लिङसिचोरात्मनेपदेषु (७।२।४२)वेट-जर्षीष्ट जरिषीष्ट, न लिङि(७।२।३६ दीर्घः । अजीट, अजरिष्ट, अजरीष्ट । जनीजष् (११५५४) इति मित्जरयति । अजयं संगतम् (३।१।१०५) । कुमि जीर्यति-कुञ्जरः, अच् १० (द्र० ३।१।१३४) । गत्यर्थाकर्मक (३।४।७२) इति क्तः-अनुजीर्णो वृषली चैत्रः । जीर्यतेरतृन् (३।२।१०४)-जरन्, जरती । दारजारौ कर्तरि णिलुक् च (३।३।२० वा०) घ -जारः । जनश्च्योः क्त्वि (७।२।५५) इतीट् - जरित्वा जरीत्वा । जर्जरः-यङलुक्यच् (द्र० ३।१।१३४)। विशिभ्यां झच् (३।१२६) जरन्तो महिषः । क्रयादौ ज़ वयोहानौ (९।२३)- जृणाति ।' झीर्यति । झर्भरः । झरः, निर्भरः । झरीकः ॥२२,२३।।
२१. षङ् प्राणिप्रसवे । सूयते स्त्री। स्वरतिसूतिसूयति (७।२। ४४) इति वेट-सोता सविता । इतो वीङन्ता (३०) नवौदितःसूनः, सूनवान् । प्रसूनं पुष्पम्, अत एवायम् अप्राणिप्रसव इत्यन्ये । २०
१. पुरुषकारे तु 'क्षीरस्वामी तु सुहेत्येव पठित्वाऽऽह—षह षुह शक्ताविति दुर्गः' इत्येवमुद्धियते (पृष्ठ १२२)।
२. 'आर्यसंगतम्' पाठा० । ३ 'जविशिभ्य' पाठा० । ____४.. स्मृतं पुरुषकारे (पृष्ठ ४२) । चुरादौ (१०।२०६) पठितमिह क्षीरस्वामी न सस्मार।
५. 'स्वादय अोदितः' (४।३१) इति वक्ष्यमाणसूत्रेण । भोदित्वे पोदितश्च' (८।२।४५) इति निष्ठानत्वम् ।
६. पुरुषकारे (पृष्ठ ३३) तु यथा पाठ उद्धृतस्तथात्र ‘पाहुः पाठः । अयमत्रापि क्वचिद्धस्तलेखे पठ्यते ।
२५