________________
२७
दिवादिगणः (४)
२०६
निनतिषति । नृत्तम्, यस्य विभाषा(७।२।१५) इत्यनिट्त्वे सिद्धे ईदित्वं यङ लुगर्थम्'-नरीनत्तः, क्षभ्नादित्वात् (द्र० ८।४।३६) णत्वाभावः । न पादम्याङ्यम (१।३।८६) इति तङ-नर्तयते ।।८।। ___६. सी उद्वेगे' । उद्वेगो' भयम् । वा भ्राशभ्लाश (३।१७०) इति वा श्यन्–त्रसति, त्रस्यति । वा भ्रमुत्रसाम् (६।४।१२४) लिट्य त्त्वाभ्यासलोपौ-त्रेसुः तत्रसुः । त्रसिगृधि (३।२।१४०) इति क्नु:- त्रस्नुः । चुरादौ त्रस धारणे (१०।१६४ पाठा०) त्रासयति । . १० कुथ पूतीभावे । पूतीभावो दुर्गन्धिः, क्लेदः । कुथ्यति । कोथित्वा । कुथितम्, कोथितम् । कोथः ॥१०॥
११. पुथ हिंसायाम् । पुथ्यति, पोथनम् ॥११॥
१२. गुध परिवेष्टने । गुध्यति । गुधित्वा । गुधेरूम: (उ० ५।२) गोधूमः । भिदादौ (गण० ३।३।१०४) गोधा । उन्धमिगुधि (दश० उ० ६।२८) इति कित् सः- गुत्सः । लक्ष्ये छान्तः --गुच्छः ।।१२।। . १३ क्षिप प्रेरणे । क्षिप्यति, द्वाविमाबम्भसि क्षिप्य (महाभारत) इति लोट् । नेट-क्षेप्ता। नव्योऽयम् । तुदादौ(६।५)क्षिपते, क्षिपति । १५
१४. पुष्प विकासे । पुष्प्यति । पचादौ (द्र० ३।१।१३४)पुष्पम् । पुष्पितस्तारकादौ (द्र० ५।२।३६) ॥१४॥ .
१. यद्यपि "श्तिपा शपानुबन्धेन' इति परिभाषया ईदितफलमिण्नषेधो यङ्लुकि न प्रवर्तते, तथापि केवले नृत्यतौ 'यस्य विभाषा' (७२।१५) इत्यनेनैवेनिषेधे सिद्ध ईदित्वं व्यर्थं सदू यङलुक्यपि इनिषेध प्रवर्तयति । अत्र २० धातुवृत्तिद्रष्टव्या (पृष्ठ २८४) ।
२. 'उद्वेजने' 'उदेवजनम्' पाठान्तरे । ३. 'चुरादौ.......त्रासयति' क्वचिन्न ।
४. कथमत्र कित्त्वविकल्प इति न जानीमः । उदुपधात् (१।२।२१) इत्यनेन तु नं संभवति, शब्बिकरणस्य तत्र विधानात् ।
५. इतोऽग्रे 'पोथयामास' इत्यधिकम् । ६. गुच्छस्तु गुङ शब्दे (१।६७६) इत्यस्मात् छकि (द्र० हैमो० १२४)। नात्र गुत्सस्य प्राकृतं रूपं गुच्छ इति शक्यं वक्तुम्, तथैव न मत्सस्य मच्छः ।
७. देवादिकेषु 'क्षिप प्रेरणे' इति न प्राचीनः पाठ इत्यर्थः । द्रष्टव्यात्र धातुवृत्तिः (पृ० २८४)।
२५
३०