________________
क्षीरतरङ्गिभ्यां
1
२. षिव तन्तुसन्ताने । सीव्यति । सिषेव । परिनिविभ्य: ( ८|३| ७० ) इति षत्वम् - [ परिषीव्यति ] निषीव्यति, विषीव्यति । सिवादीनां वा ( ८|३|७१ ) इति पर्यसीव्यत । सुस्यूषति । सिसेविषति, स्तौतिण्योः ( ८ | ३ | ६१ ) इति नियमात् षत्वं नास्ति । स्यूत्वा सेवित्वा । ५ स्यूतम् । स्तन्भुसिवुसहां चड्युपसर्गात् (तु० ८।३।११६ वा० ) – पर्यसीषिवत् । सिवः किद्' इति चट् – सूचः, सूची । सिविमुच्योष्टरू च ( उ० ४।१६३ ) - सूत्रम् । सिवुष्ठिवोर्युटि वा दीर्घः' - सीवनम्, सेवनम् । प्रसेवको भस्रादिः ॥ २॥
1
१०
१५
२०
.२०८
३. त्रिव गतिशोषणयोः । स्त्रीव्यति । ज्वरत्वर ( ६।४।२० ) इत्यूत्वम् स्रुत्वा स्रवित्वा ॥ ३ ॥
४. ष्णसु निरसने । स्नस्यति । मिदित्येके सिष्णसयिषति । ष्णुस श्रदर्शने इति द्वमिडाः ॥ ४ ॥
1
५. क्नसु ह्वरणदीप्त्योः । ह्ररणं कौटिल्यम् । क्नस्यति । चरिचलि (६।१।१२ वा० ) इति चक्नसम् ||५||
६. प्युस विभागे । प्यस्यति ॥ ६ ॥
७. प्लुष दाहे । प्लुष्यति । प्लोषित्वा । भ्वादौ (११४६३) प्लोषति । ऋयादौ ( |५६) प्लुष्णाति ॥७॥
I
1
८. नृती गात्रविक्षेपे । गात्रविक्षेपो नाट्यम् । नृत्यति । सेऽसिचि कृतचूतछृदतृदनृतः (७।२।५७ ) इति वेट् -नर्त्स्यति, नर्तिष्यति निनृत्सति १. अनुपलब्धमूलं सूत्रम् । चटः कित्त्वात् छ्वोः शूड् ( ६|४|११ ) इत्यूठ् । अन्यत्रणादौ टेरूत्वं विधीयते ।
२. अर्थोऽनुवादः – 'ल्युट् ष्ठिवुसिवो दीर्घश्च' चान्द्रं १ ३ ६७ ६८; सूत्रम् । तुलना कार्या - सरस्वतीकण्ठा० २।४।१६४,१७७।।
३. द्रष्टव्या क्षीरस्वासिनोऽमरटीका १६ | ७ || 'वीणाङ्गम्' पाठा० । अत्र २५ वीणाप्रान्ते वक्रकाष्ठमुच्यते' इति धातुवृत्तिर्द्रष्टव्या ( पृ० २८२ ) ।
४. उद्धृतमिदं धातुवृत्तौ (पृष्ठ २८३ ) । 'अर्दने' पाठा० | लिबिशेन अर्दने' इति स्वीकृत्य ‘अदर्शने' पाठान्तरम् उपन्यस्तम् । तच्चिन्त्यम्, धातुवृत्तौ 'प्रदर्शने' इत्यस्यव स्वामिनाम्ना निर्देशात् ।
५. अत्र धातुवृत्तौ अयं पुषादावपि पठ्यते फलमङोऽपि सिद्धिरिति ३० स्वामी' इति पठ्यते । अयं पाठ इह नोपलभ्यते ।