________________
॥ दिवादिगणः॥
[ श्रथ सेटः परस्मैपदिनः ]
५
१. दिव क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिगतिषु' । व्यवहारः त्रयविक्रयादिः । इतः षहान्ता ( ४।१८ ) एकविंशतिः सेटः परस्मैपदिनश्च । दिवादिभ्यः श्यन् ( ३।१।६९ ) - दीव्यति । देविता । दिवः कर्म च (१।४।४३ ) प्रक्षान् दीव्यति, अक्षैर्दीव्यति वा । दिवस्तदर्थस्य (२|३| ५८) इति षष्ठी शतस्य दीव्यति । सनीवन्तर्ध ( ७/२/४६ ) इति वेट् - दुद्यूषति, छ्वोः शुडनुनासिके च ( ६ । ४ । १६ ) इति । दिदेविषति । द्यूत्वा, देवित्वा न क्त्वा सेड् (१।२।१६ ) इति कित्त्वाभावः । अक्षद्यूः । पचादौ । ( गण ३|१|१३४ ) देव:, देवी' । दिवोऽविजिगी - १० बायां (८।२।४६ ) निष्ठानत्वम् - प्राद्यून औौदरिकः । विजिगीषायाम् -- द्यूतम् । वृषादिभ्यश्चित् ( उ० १।१०६) देवल: । शकादिभ्योऽन् ( उ० ४/८१ ) - देवटः । दिवेॠन् (तु० उ० २। ६8 ) - देवा पत्युः कनिष्ठो भ्राता । तथा श्रतिकमिमि ( उ० ३।१३२ ) इति देवरः । कृविघृष्वि ( उ० ४।५६ ) ५ किकीदिविश्चाषः । दिवो द्व दीर्घश्चाभ्यास- १५ स्य ( उ० ४१५५ ) इति क्विन् - दीदिविरन्नम् । दिवेडिव्' – द्यौः ॥ १
१. 'स्तुतिकान्तिगतिषु' इति क्वचित् ।
२. पचादिगणे (३।१।१३४) देवद् पाठात् टित्त्वान्ङीप् ( ४११/१५ )
द्रष्टव्यः ।
३. ऊर्णाजीवी' इत्यधिकं क्वचित् । अमरकोशेतु देवाजीवस्तुदवेल: इति २० पठ्यते । (२।१०।११) ।
४. 'कनिष्ठः' क्वचिन्न । अत्रास्मत्संपादितायां दशपाद्युणादिवृत्तौ देवरपदव्याख्याने ' ( ८।६२) आस्माकीना टिप्पणी द्रष्टव्या (पृष्ठ २३० टि०२ ) । ५. दशपाद्युणादिवृत्ती (१।२६) 'किकि: दीवि:' इति द्वे पदे व्याख्याते । अत्र तत्रस्था टिप्पणी द्रष्टव्या (पृष्ठ १८ टि० २ ) ।
२५
६. हैमोणादि ε४६ । अन्यत्र 'डिवि : ' प्रत्यय: ( भोज २।१।३०६, श्वेत ० ५।८० 'कातन्त्र ६।५३ ; अमरटिकासर्वस्व, भाग १ पृष्ठ ७ ) । हैमोणादी प्रत्ययान्तस्य हल इत्संज्ञा न भवति ।