________________
. २०५
जुहोत्यादिगणः (३) ७८) इत्त्वं नास्ति । न बभस्ति-नभः' । भसितं भस्म, मनिन् (द्र० उ० ४।१४५)। हुयामाश्रुभसिभ्यस्त्रन् (ऊ. ४१६८.)-भस्त्रा। शभसोऽदिः (उ० १।१३०)-भसद् भगम् ॥१६॥
२०. कित ज्ञाने । चिकेति, चेकितानि । कितकः, किं तवास्तीति वा'। उ:-केतुः (द्र० उ० ११७४) केतनम् । भ्वादौ कित निवासादौ ५ (१।७२०) केतति, चिकित्सति । चुरादौ (१०।२७७) केतयति ।२०
२१. तुर त्वरणे । तुतोति । तुरगः, तुरितः ॥२१॥
२२. धिष शब्दे । दिधेष्टि । धिषणा, धृधिष च (उ० २।८२) इति क्युर्वा । अन्दू (उ० १।६३) इति दिधिषूः । सानसिवर्णसि (उ० ४।१०७) इति धिष्ण्यम् ॥२२॥ ___२३. धन धान्ये । दधन्ति । कृषिचमितनिधनि (उ० १।८०) इत्यूः धनू राशिः । अतिपृवपि (उ० २।११७) इत्युस्-धनुस् । वनिप् (द्र०.३।२।७५) धन्वा । अच् (द्र० ३।१।१३४)-धनम् । भ्वादौ (११३०८ पाठा०) धनति ॥२३॥ ___२४. जन जनने । जजन्ति । ईडजनोर्ध्वं च (७।२।७८) इतीट् १५ जनिषे, छोन्दसत्वाद् द्व' न भवतः । दिवादौ । जनी प्रादुर्भावे (४।४०) जायते ॥२४॥ ___२५. गा स्तुतौ च; २६. छन्दसि । जनने च । भृक्षामित्, बहुलं छन्दसि (७।४।७६,७८) इति च-जिगाति, जिगीतः, जिगति । भ्वादौ गाङ् गतौ (१६८०)- गाते। के गै शब्दे (११६५२)- गायति । २० इणो गा लुङि (२।४।४५) अगात् । इङो, गालिटि (२।४।४६) अधिजगे ॥२५॥
२७. वृत् ॥
२५
१. तु० अमरकोष भानुजिटीका पृष्ठ ३० । २. द्र. निरुक्त ५।२२। ।
३. अत्र लिबिशेन 'उ० १११५६ तुलनीयम्' इति संकेतितं तच्चिन्त्यम्, कनिन्प्रत्ययस्य तत्र विधानात् । अत्र तु 'अन्येभ्योऽपि दृश्यन्ते' (३।२।७५) इत्यनेन वनिप् भवतीति सूचितं स्वामिना । पूर्वत्र ७२ पृष्ठस्था टि० ३ द्र० ।