________________
२०४
क्षीरतरङ्गिण्या
अञ्जिसिभ्यः क्तः (उ० ३।८९)-घृतम् । घृणा । घृणिपृश्नि (उ० ४।५२) इति घृणिः । भ्वादौ (१।६६६) घरति, चुरादौ (१। ९८) घारयति ॥१४॥
___१६. हृ प्रसाहरणे'। बलान्मोषेऽर्थे। जिहति । भ्वादौ हज ५ हरणे (११६३७) -हरति ।।१५॥
१७. ऋ सृ गतौ । तिपिपोश्च (७।४।७७) इतीत्त्वम्-इयति । गुणोतिसंयोगाद्योः (७।४।२६) अर्यते । सतिशास्त्तिभ्यश्च (३।१। ५६) इत्यङ -प्रारत । इडातव्ययतीनाम् (७।२।६६)-आरिथ ।
स्मिपूङ रज्व (७।२।७४) इतीट-प्ररिरिषति । यङि च (७।४। १० ३०) इति गुण:-अरार्यते, दीर्घोऽकितः (७।४।८४) इति अकित्त्वाद्
दीर्घः । भ्वादौ (११६६८) ऋच्छति । सिसति । सतिशास्त्यतिभ्यश्च (३।१।५६) इत्यङ–असरत् । भ्वादौ (१।६६७) सरति । तत्रैव ग्रहणान्युक्तानि । चुरादौ सारयति ॥१६,१७॥
१८. कि ज्ञाने । चिकेति, चिकितः, चिक्यति ॥१८॥ १५ १६. भस भर्त्सनदीप्त्योः । बभस्ति। बाहुलकाद् (द्र० ७।४।
१. 'प्रसह्यकरणे' पाठा०। २. दीर्घो नास्ति' इति मूलपाठः, स चाशुद्धः । अभ्यासे दीर्घत्वदर्शनात् । ३. 'सति' पाठान्तरम् । तच्चाशुद्धम् , अम्यासस्येत्त्वविधानात् (७।४।७८)।
४. चुरादौ (२५६) क्षीरस्वामी 'शार दौर्बल्ये' पठित्वा 'शारयति' इत्यु२० दाहरति, 'सार इति दुर्गः' इति पाठान्तरं चोपन्यस्यति ।
५. "भसधातोः ‘भर्त्सने' इत्यर्थो नवीनः 'भक्षणे' इति तु प्राचीनोऽर्थः" इति स्वामिदयानन्द: १।२८७ ऋग्भाष्ये । सायणस्तु धातुवृत्तौ 'भर्त्सनदीप्त्योः' इति पठन्न पि ऋग्भाष्ये ११२८७ 'भस भक्षणदीप्त्योः ' इत्येव पपाठ । अत्र 'हरी इवान्धांसि बप्सता' इति मन्त्रव्याख्याने 'हरीवान्नानि भुञ्जाने' इति यास्कवचनम् (६।३६) अप्यत्रानुसंधेयम् । दशपाधुणादिवृत्तौ 'भक्षणदीप्त्योः ' (८। ८४) 'भर्त्सनदीप्त्योः' (६।४२, ७३) इत्युभयथा पठ्यते । विग्रहानुसारमर्थानुसारं च द० उ० ६।४२, ४३ इत्युभयत्रभक्षणार्थ एव संगच्छते ।