________________
जुहोत्यादिगणः (३)
२०१
नाभ्युज्जिहते रत्नानि' । हायते ग्रामः । हश्च व्रीहिकालयोः (३।१। १४८) इति ण्युट -हायनो नाम ब्रीहिः, वर्ष च । प्रोदितश्च (८।२। ४५) इति निष्ठानत्वम्- हानः । हात्वा ॥७॥ . ८. अोहाक् त्यागे । ककारो हश्च व्रीहिकालयोः (३।१।१४८) इति सामान्यग्रहणाविघातार्थः; अकितः (द्र० ७।४।८३) इत्यभ्यासस्य । दीर्घत्वनिषेधार्थ इत्येके । जहाति । जहातेश्च (६।४।११६) इतीत्वं वा-जहितः, जहीतः । जाहीतीति यङ लुकि । आ च हो (६।४। ११७) इतीत्वम्, ईत्वम्, प्रात्वं च-जहिहि, जहीहि, जहाहि । लोपो यि (६।४।११८)-जह्यात् । घमास्था (६।४।६६) इतीत्वम् - हीयते। एलिङि (६।४।६७)-हेयात् । वातशुनीतिलशर्धेष्वजघेट- १० तुदजहातिभ्यः (३।२।२८ वा०) खश्-शर्धजहा मृगाः । हीनः । ग्लाज्याहाभ्यो निः (३।३।८५ वा०)-हानिः । जहातेश्च क्त्वि (७। ३।४३) इतीत्त्वम् -हित्वा । नौ हः (उ० ३।४४) इति कन्– निहाका गोधा' । नजि जहातेः (उ० १११५७) कनिन् –अहः । कलं 'जहातीति कलहः- कः (द्र० ३।२।५) ॥६॥
६. डुदाञ् दाने। दत्ते। नेर्गदनद (८।४।१७) इति प्रणिददाति । नाभ्यस्ताच्छतुः (७।१।७८) नुम् ददत् । घुमास्था (६।४।६६) इतीत्वम्-दीयते । प्राङो दोऽनास्यविहरणे (१।३।२०) तङ विद्यामादत्ते । ध्वसोरेद्धावभ्यासलोपश्च (६।४।११९)-देहि । गातिस्थाधु (२।४।७७) इति सिज्लुक-अदात् । स्थाध्वोरिच्च (१।२। २० १७) सिच किच्च-अदित । सनिमीमा (७।४।५४) इति दित्सति । डु (द्र० ३।३।८८)-दत्रिमम् । ददातिदधात्योविभाषा (३।१११३६) इति शः, पक्षे श्याव्यध (३।१।१४१) णः-ददः दायः। प्रे दाज्ञः (३।२।६)-विद्याप्रदः । दो दद्घोः (७।४।४६) दत्तः । अच उपसर्गात तः (७।४।४७)-प्रत्तम् । दाधेसि (३।२।१५६) इति रु:- २५ दारुर्दानमः । उपसर्ग घोः किः (३।३।६२) आदिः । प्रातो यच (३। ३।१२८) सुदानो गौस्त्वया । दायादः ॥६॥
१. 'तृणानि' पाठा०। २. 'माषा' इति भाष्यादौ पाठः । ३. गोधिका' पाठा० ।
४. 'पादित' पाठा० । ५. न लोकाव्यय (२।३।६९) सूत्रे 'उ' इत्यनेनोकारान्तस्यापि प्रतिषेध इति ३० षष्ठ्यभावः ।