SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २०० क्षीरतरङ्गिण्यां योश्च (७।४।७७) इत्यभ्यासस्येत्त्वम् । शदप्रां ह्रस्वो वा (७।४। १२)-निपाः , निपपरुः । क्रयादिनियमाद् (द्र० ७।२।१३) इट्पप्रिव । ह्रस्वान्तोऽयमिति नन्दी'-पपरिव । ऋद्धनोः स्ये (७।२। ७०)-परिष्यति। धारिपारि (३।१।१३८) इति ण्यन्ताचशःपारयः । पार तीर (१०।२६३) इत्यस्य पारम् । ऋदोरप् (३।३। ५७)-परः । न ध्याख्या (८।२।५७) इति निष्ठानत्वाभावः-पूर्तः। पूर्तिः । वा दान्तशान्त (७।२।२७) इति ण्यन्तात् पूर्णः पूरितः। पूरी प्राप्यायने (४।४२) ऽस्मात् तु पूर्णः। क्रयादौ (९।१८) पृणाति, तत्रैव ग्रहणशेषं वक्ष्यामः ॥४॥ ५. डुमृन धारणपोषणयोः। मृनामित् (७।४।७६)-बिभर्ति । भर्ता । भारः। वित्रः (द्र० ३।३।८८), कर्मम् नित्यम् (४।४।२०)भृत्रिमम् । दुभृन इति. द्रमिडाः-भरथुः' (द्र० ३।३।८.६)। भीही (३।२।३६) इति वाम् श्लुवच्च-बिभरांचकार बिभार । भृतः । क्रयादौ भृ भरणे (६।२०)-भृणाति, भरः, भरिता, भरीता। फले१५ अहिरात्मभरिश्च (३।२।२६) चात् कुक्षिभरः (द्र० ३।२।२६ का शिका) । संज्ञायां मृत (३।२।४६) इति विश्वंभरा । संज्ञायां समज (३।३।६६) इति भृत्या । मृञोऽसंज्ञायाम् (३।१।११२)-भृत्यः । संज्ञायां पुसि दृष्टत्वान्न ते भार्या प्रसिध्यति (३।१।११२ भाष्य०) शृङ्गारभृङ्गारौ च (तु० उ० ३।१३६) इति भृङ्गारः साधु । पचादौ २० (द्र० ३।१।१३४) जारभरा । भ्वादौ (१।६३८) भरति ॥५॥ . ६. माङ् माने शब्दे च। मिमीते, भृशामित् (७।४।७६) । मासीष्ट अकित्त्वाद् ईत्वं नास्ति । सनि मोमा (७।४।५४) इति मित्सते । अदादौ मा माने (२१५५)-माति । भ्वादौ मेङ् प्रणिदाने' (११६८५) -विनिमयते। २५ ७. अोहाङ् गतौ । भृशामित् (७।४।७६) इति जिहीते पर्णानि १. स्मृतमिदं प्रक्रियाकौमुद्याम् (भाग २, पृष्ठ २२८), धातुवृत्तौ (पृष्ठ २७२) च। २. उद्धृमिदं पुरुषकारे (पृष्ठ ३६) । ३. तथा च चान्द्र सूत्रम्-'फलेग्रहिरात्म भरिः कुक्षिम्भरिः (१।२।१०) । ४. इतोऽग्रे स्त्रियां भावाधिकारोऽस्ति तेन भार्या प्रसिद्धयति' इत्यधिक ३० क्वचित् । ५. 'प्रणिधाने' पाठा० । ६. पन्नानि' पाठा० ।
SR No.002433
Book TitleKshir Tarangini
Original Sutra AuthorN/A
AuthorYudhishthir Mimansak
PublisherRamlal Kapur Trust
Publication Year1986
Total Pages444
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy