________________
॥ अथ जुहोत्यादिगणः॥ १. हु दानादनयोः । दानमत्र हविःप्रक्षेपः, अदनं भक्षणम् । इतो डुधाञन्ता (३।१०) दशानिटः । जुहोत्यादिभ्यः श्लुः (२।४।७५) श्लो (६।१।१०) इति द्विवचनम् जुहोति, जुहुतः । हुश्नुवोः सार्वधातुके (६।४।८७) यण-जुह्वति, अदभ्यस्तात् (७।१।४) । भीहीभृहुवां ५ श्लुवच्च (३।१।३६) इति वाऽऽम् - जुहवांचकार जुहाव। हुझल्भ्यो हेधिः (६।४।१०१)-जुहुधि । होता । अचिशुचिहुसृपिछदिदिभ्य. इसिः (उ० २।१०८) इतीसिः- हविः । प्रतिस्तुसु (उ० १३१४०)" इति मन्- होमः । हुयामा (उ० ४।१६८) इति त्रन् होत्रम् । धुतिगमिजुहोतीनां द्वे च (३।२।१६८ वा०)-जुहूः स्रक् ॥१॥ १०
२. जिभी भये । चौरेभ्यो बिभेति, भीत्रार्थानां भयहेतुः (१।४। २५) अपादानम् । भियोऽन्यतरस्याम् (६।४।११५) इत्त्वम् - बिभितः । भीही (३।११३६) इति बिभयांचकार बिभाय । भीस्म्योहेतुभये (१।३।६८)तङ -भियो हेतुभये षुक (७।३।४०)-मुण्डो भीषयते । बिभतेर्हेतुभये (६।११५६) आत्त्वं वा-मुण्डो भापयते, १५ नेह-कुञ्चिकयनं भाययति । भियः क्रुक्लुकनौ (३।२।१७४)भीरुः, भीलकः । क्रकन अपि (द्र० ३।०।१७४ भाष्य०)-भीरुकः । भिय षुग वा (उ० १३१४८) इति मक्-भीमः, भीष्मः । अविधौ भयादीनामुपसंख्यानम् (३।३।५६ वा०)- भयम्, भीतिः, भीः। ऋजेन्द्राग्र (उ० २।२८) इति भेरभेलौ । प्रानकः शोभियः (उ० २० ३।८२)-भयानकः । इण्भीका उ० ३।३४) इति कन्–भेकः ॥२॥ . . . ३. ही लज्जायाम् । जिहति, जिह्रियति । भोह्री (३।१।३६) इति जिह्रयांचकार, जिह्राय । प्रतिहीली (७।३।३६) इति पुक्हपयति । नुदविन्दोन्दत्रा (८।२।५६) इति वा नत्वम् -ह्रीणः ह्रीतः । ह्रीः ॥३॥
२५ ४.प' पालनपूरणयोः। पिपति, पिपूर्तः पिपुरति'- अतिपिप१. 'पु' पाठान्तरम् । ... ३. 'पिप्रति' पाठान्तरम्।
२. नास्ति क्वचित् ।।