________________
२०२
क्षीरतरङ्गिण्यां
१०
१०. डुधाज दानधारणयोः' । धत्ते । प्रणिदधाति । दधत् । धीयते । धेहि । अधित । अधात् । दधस्तथोश्च (८।२।३८) इति भए -धत्तः, धत्स्व, धत्तिमम् । पाय्यसान्नाय्य (३।१११२६) इति धाय्या सामिधेनी । दधः । धायः । दधातेहि (७।४।४२)-हितम् : वष्टि भागुरिरल्लोपम्' इति पिहितम्, पिधानम् । स्पृहिगृहि (३।२।१५८) इत्यालुच्- श्रद्धालुः, श्रदुपसर्गवत् । भाषायां धान कृश (३।२।१७१ वा०) इति किकिनौ-दधिः । प्रातोऽनपसर्गे कः (३।२।३)-गोधा।
आतश्चोपसर्गे (३।१।१३६) क: विधः, विधा ! कर्कन्धर्बदरी (द्र० उ० १।६३) । वयसि धानः, पुरसि च (उ० ४।२२८, २३०) इत्यसिः
- वयोधाः, पुरोधाः । विधानों वेध च (उ० ४।२२५)- वेधाः । सितनिगमि (उ० १६६) इति तुन् - धातुः । दधातेर्यन्नुट च (उ० ५।४८)-धान्यम् । सुसूधाज गधिभ्यः क्रन् (उ० २।२४) धीरः । कृपवृजिमन्दि (उ० २।८१) इति क्युन्- निधनम् । पानको लूशिघि
धान भ्यः (तु० उ० ३ । ८३)-धानकः । अन्दूदन्भू (तु० उ० १। १५ ६३) इति दिधिषूर्येष्ठानूढा' । धापृवस्यज्यतिभ्यो नः (उ० ३।६)
१. 'धारणपोषणयोः' इतिः क्वचित्, स चार्वाचीनः पाठः । दशपादीवृत्तेः क-पाठो दानार्थ एवानुकूलः । निरुक्तकारो (७।१५) ऽपि 'रत्नधातमं रमणीयानां धनानां दातृतमम्' इत्याह ।
२. द्र० सं० व्या० शास्त्र का इतिहास' भाग १, पृष्ठ १०४; (च० संस्क०) । तत्र पाठभेदा अपि निर्दिष्टाः । अत्र अवाप्योः' ग्रहणमुपलक्षणार्थम्, तेन अधेरपि भवति । 'धिष्ठितम्' 'धिष्ठितः' इत्यादीनि पदानि महाभारतादावसकृत् प्रयुज्यन्ते।
३. श्रच्छब्दस्योपसंख्यानम् (१।४।५६ वा.) इति वात्तिकेन । शाकटायनस्तु 'श्रद् अच्छ अन्तर्' इत्येतान् श्रीनधिकानुपसर्वांनाह । द्र० बृहद्देवता २।९५। २५ ४. प्रायेण सर्वासूणादिवृत्तिषु 'वयसि' धात्रः, पयसि च, पुरसि च' (४।
२२८-२३०) इति पाठक्रमो दृश्यते। क्षीरस्वामिपाठे तु मध्यमं सूत्रं नासीदिति प्रतीयते । युक्तं च चैतत्, उत्तरयोद्विश्चकारपाठात् ।
५. 'वौ धानो' पाठा० ।
६. अत्र विप्रवदन्ते स्मृतिकाराः। तदुक्तं क्षीरस्वामिना अमरटीकायाम् ३० (२।६।२३)- “दिधिषू द्वौ वारौ द्विरूढा संस्कृता । यदाहुः- अक्षता च