________________
१६६
क्षोरतरङ्गिण्या द्रायते इत्येके । पचादौ (द्र० ३।१।१३४) दरिद्रः । दरिद्रातेर्वा इत्याम् - दरिद्रांचकार । ददरिद्रौ'। अभ्यस्ताज् (द्र० ३।४।१०६) झर्जुस् -प्रदरिद्रः, लुङि वा--प्रदरिद्रीत अदरिद्रासीत । तनिपतिदरिद्राणां
(तु. ७।२।४६ वा.) सनि वेट - दिदरिद्रासति दिदरिद्रिषति । ५ न दरिद्रायके लोपो दरिद्राणे च नेष्यते, दिदरिद्रासतीत्येके दिदरि
द्विषनीति वा (६।४।११४ वा०) । दरिद्रितः, यस्य विभाषा (७।२। १५) इतीनिषेधो नास्ति, तत्रैकाच् इत्यनुवृत्तः । दरिद्रातेर्यालोपश्च (उ० १६०) इत्यू:- दर्दू ः ॥६०॥ .. ७३. उदात्तौ । नोदात्तेतो, दरिद्राजानित्यनित्त्वस्मरणात् ॥
७४. चकास दीप्तौ। चकास्ति । चकासति । चकासत् । कास्यनेकाग्रहणाद् (द्र० ३।१।३५ भाष्य) आम्-चकासांचकार । तिप्यनस्तेः (८।२।७३) इति सस्य दः-अचकाद् भवान् । सिपि धातो रुर्वा (८।२।७४)-अचकात् त्वम्, अचकास्त्वम् । अचकासेत् । चकासिता ॥६॥
७५. शासु अनुशिष्टौ । अनुशिष्टिनियोगः । शास्ति । शासति । शासिता । शास इदहलोः(६।४।३४) शासिवसि (८।३।६०) इति षःशिष्टः । शा हौ (६।४।३५)-शाधि । तिप्यनस्तेः(८।२।७३) इति दःअशाद् भवान् । सिपि धातो हर्वा (८।२।७४) अशात् त्वम्, अशास्त्वम् । झर्जुस् (द्र० ३।४।१११)- प्रशासुः । सतिशास्त्यतिभ्यश्च (३।१।५६) इत्यङ-अशिषत् । नाग्लोपिशास्वृदिताम् (७।४।२) -अशशासत् । एतिस्तुशासु (३।१।१०६) इति क्यप्–शिष्यः । तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां चानिटौ (उ० २।६४)-शास्ता बुद्धः, प्रशास्ता ऋत्विक् । क्तिन् पाबादिभ्यः (३।३।६४ वा)-शिष्टिः ।
१. अनुपलब्धम्लम् । मतमिद स्मृतं धातुवृत्तौ (पृष्ठ २६६) । अत्र धातु२५ वृत्तिरनुसंधया। २. स्मृमिदं धातुवृत्तौ (पृष्ठ २६६) ।
३. 'अद्यतन्यां वा' इति वार्तिकम् (६।४।११४) अत्रानुसंधेयम् । ४. द्र.- पृष्ठ ६, पं १।
५: तृस्तृचौ पाठा०। ६. अप्तन्तच् (६।४।११) सूत्रे 'प्रशास्तृ' शब्दे प्रोपसर्गस्यातन्त्रत्वात् दीर्घः' । द्र० धातुवृत्ति; (पष्ठ २६७) ।
२०