________________
अदादिगणः (२)
६७. अन च । चात्' प्राणने । प्रपूर्वः-प्राणिति । प्राणीत् प्राणत् । अनितेः (८।४।१६) इति णत्वम् । अन्तः (८।४।२०)प्राण् । उभौ साभ्यासस्य(८।४।२१) - प्राणिणिषति । कृवृजसि (उ० ३।१०) इति न: -अन्नम् । असुन (द० उ० ६।४६)-अनः शकटम् । अध्न्यादिषु (गण उणादि ४।११२)अन्यः । अनिदृशिभ्यां चित् (तु. ५ उ० ३।४१) अनीकम् । प्राणाद्या पत्रि। .६८. जक्ष भक्षहसनयोः। [जक्षिति], जक्षति । अजक्षीत्, अजक्षत् । जक्षित्यादयः षट् (६।१।६) अभ्यस्तः । नाभ्यस्ताच्छतुः (७।१।७८) इति न नुम् - जक्षत् । वा नपुसंकस्य (७।११७६) जक्षति कुलानि, जक्षन्ति । सिजभ्यस्त (३।४।१०६) इति झेर्जुस्-अज़क्षुः । लुङि- १० प्रजक्षिषुः ॥५७॥
६९: उदात्ता उदात्ततः । . ७०. वृत् । रुदादयः पञ्चोक्ताः ॥ . .. ७१. जाग निद्राक्षये । सेट् । जागाति, जाग्रतः', जाग्रति बुधाः । रिङ् शयग्लिङ्घ (७।४।२८) इति प्राप्ते जाग्रोऽविचिण्णल्डित्सु १५ (७।३।८५) इति गुणः-जागर्यते । उपविद-जागुरन्यतरस्याम् (तु० ३१११३८) इत्याम् वा-जागरांचकार, जजागार । णलुत्तमो वा (७।१।६१)णित् -जजागार, जजागर । ह म्यन्तक्षण (७।२॥५) इति वृद्धि स्ति-अजागरीत् । जागर्तेरकारो वा (३।३।१०१ वा० ) जागरा, जागर्या । जागुरूकः (३।२।१६५)- जागरूकः । शस्त- २० जागृभ्यः क्विन् (उ० ४।५४)-जागृविः ॥५६॥ - ७२. दरिद्रा दुर्गतौ । सेट् । दरिद्राति । इद् दरिद्रस्य (६।४। ११४)-दरिद्रितः । श्नाभ्यस्तयोरातः (६।४।११२) लोपः दरिद्रति । दरिद्रातेरसार्वधातुके (कातन्त्र ३।८।३४)५ दरिद्रयते, दरि
२५
१. 'चकारात्' पाठा० । . २. प्राण-अपान-व्यान-उदान-समानाः ।
३. 'जागृतः' इति शुद्धः पाठो द्रष्टव्यः । । । . . ४. जागृभ्यः' पाठा० । क्षीरस्वामी सर्वत्र 'जागुर्' इत्येव पठति । ...
५. अत्र लिबिशेनाबुद्ध्वा भाष्यवार्तिकं' द्रष्टु ६।४।११४,१ संख्या निर्दिष्टा ।