________________
".
. क्षीरतरङ्गिण्यां । कितौ वा'-रुरुदिषति, रुरोदिषति, रुदित्वा रोदित्वा । रोदेणिलुक् च (उ० २२२) इति रक्-रुद्रः ॥५५॥ ६३. उदात्ता उदात्तेतः ॥
[अनिट् परस्मैपदी] ५ ६४- विध्वप् शये, ६५ अनुदात्त उदातेत् । स्वपिति । सुष्वाप ।
सुविनिर्दुभ्यः (८।३।८८) इति षः । सुषुप्यते । वचिस्वपि (६।१। १५) इति सम्प्रसारणम् सुषपुः । लङि (द्र० ७।३।१८,६६) अस्वपीत् अस्वपत् । लुङि अस्वाप्सीत् । रुदविद (१।२।८) किति सुषुप्सति,
'सुप्त्वा । स्वापेश्चङि (६।१।१८) सम्प्रसारणम् – असूषुपत् । स्वपो नन् ११० (३।३।६१)--स्वप्नः । जीतः क्तः (३।२।१८७)-सुप्तः । स्वपितृषो'नजिङ् (३।२।१५२)-स्वप्नक् ॥६६॥
- [अथ सेटः परस्मैपदिनः] ... ६६. श्वस.प्राणने । प्राणनं जीवनम् । इतो वष्टयन्ता (२।८२) द्वादश रोट: । श्वसिति । अश्वसीत्, अश्वसत् । लुङि -अतो हलादेलघोः (७।२।७) वाः वृद्धिः-अश्वसीत्, अश्वासीत् । श्याव्यध (३।१।१४१) इति णः-श्वासः । काशकृत्स्ना प्रस्य निष्ठायाम
अनित्वमाहुः --आश्वस्तः, विश्वस्तः । चलनशब्दार्थाद् (३।२। '१४८) युच् श्वसनः ॥५७।।
१. अत्रापि भ्रान्तः स्वामी । न हि 'रलोव्युपधाद्' (१।२।२६) इति क्त्वा२० सनोः कित्वं प्रतिषेधति, किं तर्हि विकल्पं विधत्ते । 'रुदविद' (१।२।८) इति तु
नित्यं कित्त्वं प्रतिपादयति, न विकल्पम् । अतः 'रुरुदिषति रुदित्वा' इत्येव साधु । विद ज्ञाने (२१५६) सूत्रव्याख्यानेऽपीयमेवास्य भ्रान्तिः। उत्तर धातुसूज्ञ व्याख्याने 'रुदविद' इत्यनेन नित्यं कित्त्वं विहितम् ।।
• २. क्षीरस्वामो 'म्यन्तक्षण' (७।२।५) सूत्रे शस' धातु पठति । तेन-प्रश२५ सीत्' इति शसेर्व द्धिनिषेधो भवति ( क्षीरत० ११४८० पृष्ठ १०४) । तेनात्र
स्वामिमते वृद्धिविकल्पः । ये तु म्यन्तक्षण (७।२।५) सूत्रे श्वस' धातु • पठन्ति, तेषाम् 'अश्वसीत् इत्येव भवति, शसधातोस्तु प्रशसीत् प्रशासीत् इत्यु
भयथा।
३. स्मृतमिदं धातुवृत्तौ (पृष्ठ २६४) । काशकृत्स्नधातुपाठस्य कन्नडटीकायामेतद्धातुसूत्रव्याख्याने तादिप्रत्ययसामान्य इडाभाव उदयिते । यथा - 'श्वस्तिः, श्वस्त्तम् , श्वस्तव्यम्,' इति (पृष्ठ १२४) 1.. .