________________
२५
अदादिगण: ( २ )
१९३
1
१११ ) - स्तः सन्ति सन् । उपसर्गप्रादुर्भ्यामस्तिर्यच्परः ( ८|३|८७ ) इति षः - प्रभिष्यात् प्रभिषन्ति, प्रादुःष्यात् प्रादुःषन्ति, नेह - अभिस्त: तासस्तयोर्लोप ( ७|४|५० ) - त्वमसि व्यति से । रिच ( ७|४|५१ ) - व्यतिरे । ह एति ( ७|४|५६ ) इति सस्य हः - व्यतिहे । ध्वसोरेद्धावभ्यासलोपश्च (६|४|११० ) - एधि । अस्ति सिचोऽपृक्ते ( ७।२। ५ ९६ ) इतीट् - आसीत् । श्रस्तेर्भू : ( २|४|५२), गातिस्था ( २ |४| ७७) इति सिज्लुक्, ग्राहिभुवोरी, प्रतिषेधः ( १ |१| ५६ वा० ), भूसुबोस्तिङि ( ७३८८) इति गुणाभावः - प्रभूत् । अनुप्रयोगे तु भुवाऽस्त्यबाधनम् ( २|४|५२ वा० ) – कारयामास । कृभ्वस्तियोगे ( ५२४|५० ) च्वि:- शुक्लीस्यात् ॥ ५३ ॥
,
६१. मृजूष् शुद्धौ । व्रश्चभ्रस्ज ( ८|२| ३६ ) इति पः, मृजेर्वृद्धिः ( ७ । २ । ११४) माष्टि । मृजेरजादौ संक्रमे विभाषा वृद्धिः ' परि मृजन्ति परिमार्जन्ति । ऊदित्त्वाद् ( द्र० ७।२।४४) वेट् - मा मार्जिता । मृष्टः । मृर्जेविभाषा ( ३।१।११३ ) क्यप् परिमृज्यः, परिमार्ग्यः । तुन्दशोकयोः परिमृजापनुदो: ( ३।२।५) कः -- तुन्दपरिमृजोऽलसः । घञ् ( द्र० ३।३।१८, १९ ) - मार्गः । भिदादौ ( गण० ३ | ३ | १०४) मृजा । कञ्जिमृजिभ्यां चिद् (उ० ३।१३७ ) इत्यारन् - मार्जारः, मार्जालः । मृजेष्टिलोपश्च (उ०१।११०) इति कलच् - मलः । चुरादौ मृजष् शौचालंकारयोः (१०/२३७ ) - मार्जयति । मार्जना ( द्र० ३।३।१०७ ) | मार्जितः, मार्जित्ता रसालेति रूढिः ( द्र० अमर २० २।६।४४) ।।५४।।
६२. रुदिर् प्रश्रुविमोचने । रुदादिभ्यः सार्वधातुके ( ७।३।७६) इतीट् - रोदिति । लङि - रुदश्च पञ्चभ्यः ( ७/३/२८) इतीट् - अरोदीत् श्रड् गागालवयोः ( ७।३।१९ ) - प्ररोदत् । रुद्याद् - इतीटी पूर्वविप्रतिषेधेन बाधित्वा यासुट् ( द्र० ३।४ । १०३) । इरितो वा ( ३।१।५७ ) इत्यङ - प्ररुदत् प्ररोदीत् । रलो व्युपधाद् ( १ |२| २६) इति निषेधे प्राप्ते रुदविदमुष (१।२८) इति संश्च क्त्वा च
१. 'अथान्ये वैयाकरणा मृजेरजादी संक्रमे विभाषा वृद्धिमारभन्ते' इति भाष्यम् (१।१।३) अत्रानुसंधेयम् ।
२. उद्घृतं धातुवृत्तौ (पृष्ठ २६२) ।
१५
२५
३०