________________
२६२
क्षीरतरङ्गिण्यां वेदित्वा । उषविदजागुरन्यतरस्याम् (तु० ३।१।३८) इत्यां वा विदांचकार, आमि विदेरगुणत्वमाहुः (द्र० ३।११३८ भाष्य), विवेद । सिजभ्यस्तविदिभ्यश्च (३।४।१०६) इति झर्जुस् –अविदुः । विदां
कुर्वन्त्वित्यन्यतरस्याम् (३।१।४१), पक्षे -विदन्तु । णो अनुपसर्गाल५ लिम्पविन्द (३।१।१३८) इति शः–वेदयः । सत्सूद्विष् (३।२।६१)
इति क्विप्-वेदवित् । क्ते' विदितः । विदिभिदिछिदेः कुरच् (३।२। १६२)-विदुरः । विन्दुरिच्छुः (३।२।१६६) इति विन्दुर्विद्वान् । बिदि अवयवे (११५३) ऽस्मात् तु बिन्दुलकणः, अोष्ठयादिः ।
संज्ञायां समज (३।३।६६) इति क्यप्-विद्या । घट्टिवन्दिविदिभ्यो १० (३।३।१०७ वा०) युच्-वेदना । कर्मणि दृशिविदोः साकल्ये (३।
४।२९) णमुल्-ब्राह्मणवेदं भोजयति । विदेः शतुर्वसुः (७।१।३६) वा-विद्वान्, विदन् । विभाषा गमहन (७।२।६८) इतीट-विविद्वान् विविदिवान् । हृपिशिरुहि (द० उ० ११४७) इतीन् –वेदिः । हलश्च
(३।३।१२१) इति करणे घञ् –वेदः । नभ्राण्नपाद् (६।३।७५) १५ इति न विद्यते- नवेदाः, असुन् सर्ववेदाः सर्वस्वदक्षिणक्रतुयाजी ।
दिवादौ विद सत्तायाम् (४।६३)-विद्यते । तुदादौ विदल लाभे (६।१३६)-विन्दति । रुधादौ विद विचारणे (७।१७)-विन्ते, विनत्ति । चुरादौ विद चेतनाख्यानविवादेषु (१०।१५४). तङानीवेदयते ॥५२॥
६०..अस भुवि । भवनं भूः, सत्ता । अस्ति । इनसोरल्लोपः(६।४।
१..अत्र लिबिशेन भ्रान्त्या कित्त्वविकल्पविधायकसूत्रस्य (१।२।२६) संख्या निर्दिष्टा। २. 'बाहुलकादुः' इति बिदि अवयवे (११५३) इत्यत्र स्वामी।
३. उज्ज्वलदत्तेन 'गतिकारकयोः' (उ०.४।२२६) सूत्रवृत्तौ व्याख्यातः । ४. 'सर्ववेदाः स येनेष्टो यागः सर्वस्वदक्षिणः' इत्यमरः (२।७।६)।
५. रुधादी विदधातुरनुदात्तेत् पठ्यते (द्र०क्षीर० ७।१७) । तेन 'विनत्ति' इति रूपं चिन्त्यम् । .. ६. अस भुवि, स भुवि इति द्वौ स्वतन्त्रौ धातू । वैय्याकरणस्तु उभयोर्धात्वोः प्रसिद्धानां पदानां साधुत्वज्ञापनाय कैश्चिद् 'अस भुवि' इति
पठ्यते, कैश्चित् ‘स भुवि' इति । द्र०–'अस्ति सकारमातिष्ठते, आगमौ ३० गुणवृद्धी प्राति ठते' (महा० १।३।२२)। ‘स भुवि' इत्यापिशलीयः पाठः ।
(द्र० न्यासपदमञ्जरी व्याख्याने १।३।२२) ।
२०
२५