________________
दादिगणः (२)
१९१
५
संज्ञायाम् ( ७।३। ६७ ) – वाच्यम्, शब्दे - वाक्यम् । घञ् ( द्र० ३।३।१९ ) - अनुवाकः, वाकः । उपेयिवान् ( ३।२।१०६) इत्यनूचानः । श्लोकवचः पचादी' (गण ० ३ | १ | १३४) । कृके वचः कश्च ( उ० ११६ ) इति त्रुण्कृकवाकुः कुक्कुटः । पातुतुदिवचि ( उ० २७) इति थक्— उक्थं साम । गुघृवीपचिवचि ( उ० ४। १६७ ) इति त्रन् - वक्त्रम् । क्विचि ( उ० २।५७ ) इति दीर्घः - वाक् । असुन (द० उ० ७। ४९) – वचस् । पु ंसि सज्ञायां घः ( ३।३।११८ ) - वकः । वचन्तीति नेष्यते, अनभिधानात्' । चुरादौ वाचयति । पारायणिकैर्नाधीतोऽयम्* ॥५१॥ [ अथ सेटः परस्मैपदिनः ]
५६. विद ज्ञाने । इतश्चत्वारः सेटः परस्मैपदिनश्च । वेत्ति, वित्तः विदन्ति । विदो लटो वा ( ३ | ४ | ८३ ) इति णलादयो वा - वेद, विदतुः, विदुः । दश्च ( ८२ (७५) इति दस्य वा रु: - प्रवेः, अवेत् । समो गमि (१।३।२६ ) इति तङ - संवित्ते । वेर्तोवभाषा ( ७/१/७ ) ' इति रुट् - संविद्रते बुधः, संविदते । रुदविदमुष ( ११२८) इति सेट् १५ संश्च क्त्वा च कितौ वा - विविदिषति विवेदिषति, विदित्वा,
I
१. पचादी ' श्लोकवचः' न पठ्यते । तस्याकृतिगणत्वात्साधुत्वं सम्भवति । २. उद्धृतमिदं धातुवृत्तौ (पृष्ठ २५८ ) । वचन्ति प्रयोगोऽनभिधानान्न भवतीत्यत्र न किंचित्साक्षात् शिष्टवचनमुपलभ्यते । धातुवृत्तौ (पृष्ठ २५८ ) तु मतान्तरमप्युपन्यस्यते—‘आत्रेयस्तु एकवचनान्तानुदाहृत्य अन्यत्राभिधानमित्येके २० इति' । स्कन्दस्वामी तु स्वग्र्भाष्ये ( १।५४१८ ) ' प्रवचन्ति' इत्यपि प्रयुक्तवान् ।
३. क्षीरस्वामी चुरादौ स्वयं न पठति, 'वद संदेशने ' (१०।२२६ ) इति सूत्रव्याख्याने चान्द्रमतेनोपन्यस्यति । यथाह - 'चन्द्रो वचेति प्रपाठीत्' ।
४. सायणेनास्यार्थः 'पारायणिकैर्वच परिभाषणे धातुर्न पठितः' इत्यन्यथावबुध्यास्य धातोः प्रामाणिकतां प्रत्यपादि । ( पृ० २५९) चौरादिको वद संदेशने २५ पारायणिकैर्न पठित इति तु स्वामिनोऽभिप्रायः । श्रयमेव चाभिप्रायः पुरुषकारेण स्वामिनाम्ना स्मृतः ( पृ० ५१ ) । प्रक्रियाकौमुद्यामपि (भाग २ पृष्ठ १६७ ) द्रष्टव्यम् ।
५. अत्र स्वामी भ्रान्त: । रुदविदसूत्रं हि रलो व्युपधाद्धलादेः संश्च ( ११२ । २६) इत्यादिना विकल्पे प्राप्ते नित्यं कित्त्वं विधत्ते । तेन विविदिषति विदित्वा ३० इत्येव भवति । अत्र 'रुदिर् ग्रश्रुविमोचने' (२।६२ ) इति सूत्रस्य तरङ्गिण्यपि
द्रष्टव्या ।