________________
१६०
क्षीरतरङ्गिण्यां लुग्विकरणस्य णत्ववर्जम्'-मायते । सनि मीमा (७।४।५४) इत्यच इस्-मित्सति । हुयामाश्रुवसिभसिभ्यस्त्रन् (तु° उ० ४।१६८)मात्रा। चन्द्र मो डित (उ० ४।२२८)-चन्द्रमाः । यतिस्यतिमा (७। ४।४०) इतीत्-मितः । मः सः -मासः । मापो रुरी च (द० उ० १॥ १५७)-मेरुः । माछाससिसूभ्यो यः (उ० ४।१०८ श्वेत.)-माया। ऋन्द्र (उ० २।२८) इति माला ॥५०॥ ५६. अनुदात्ताः ।
[प्रथानिट् परस्मैपदी] ५७. वच भाषणे, ५८. अनुदात्त उदात्तेत् । वक्ति। वक्ता। १० वचिस्वपि (६।१।१५) इति सम्प्रसारणम्-उवाच, उक्तम् । अस्यति
वक्तिख्यातिभ्योऽङ (३।१३५२), वच उम् (७।४।२०) अवोचत् । भव्यगेय (३।४।६८) इति कर्तरि प्रवचनीयोऽनुवाकस्य चैत्रः । यजयाचरच (७।३।६६) इति कुत्वं नास्ति-प्रवाच्यम् । वचोऽशब्द
१. स्मृतमिदं प्रक्रियाकौमुद्याम् (भाग २, १६०)। धातुवृत्तौ स्मृत्वा निराकृतम् (पृष्ठे २५८) । इह हि वैयाकरणानां विविधाः प्रवादा दृश्यन्ते । तथाहि-"गामादाग्रहणेष्वविशेषः" (परि० सीरदेव १०८, नागेश ११५ शेषाद्रिनाथ ६८) इत्यनया परिभाषया लुग्विकरणपरिभाषा (परि० सीर० ८६, नागेश ६१) बाध्यत इति सीरदेवनागेशशेषाद्रिनाथाः । वृत्तिकारोऽप्यौवानुकूल इति न्यासकार आह (६।४।६६) । तथा सति घुमास्था (६।४।६६) इत्यादिना ईत्वे मीयत इत्येव भवितव्यम् । मतान्तरे 'गामादा' परिभाषया लुग्विकरणपरिभाषा न बाध्यत इत्यपि न्यासकारसीरदेवावाहतुः । तथा सति मायत इत्येव भवति । क्षीरस्वाम्युक्त मतं नास्माभिः क्वचिदुपलब्धम् । यदि केवले णत्व (८।४।१७) एव मासामान्यस्य ग्रहणमभिप्रेतं स्यातहि परिभाषायां
माशब्दनिवेशो व्यर्थ एव, तत्र सूत्र एव तथा व्याख्यानसंभवात् । अपि च णत्वे.२५ ऽपि लुग्विकरणपरिभाषा कुतो न प्रवर्तत इति वक्तव्यम् । तस्मात् बहुमता
नुसारमीत्वेन भवितव्यमेव इति युक्तं पश्यामः ।
२. 'मासश्च' इति दशपाधुणादि-पाठः (६।२७), 'माङः सः' इति कातन्त्रोणादिदुर्गसिंहवृत्तौ (५।६४) पाठ उपलभ्यते । लिबिशेन तु हैमोणादिसूत्रनिदर्श
नाय ५६४ संख्यानिर्दिष्टा। . ३. परिभाषणे पाठान्तरम् । ३० ४. उबाचेत्यत्र तु 'लिटयभ्यासस्य' (६।१।१७) इति सम्प्रसारणम् ।
मुता