________________
१८७
अदादिगणः (२) (उ० ४।१६८) इति त्रन्-यात्रा । गम्यादौ (गण० ३।३।३) यायी। हुयामा (उ० १।३७) इति मृगयुः साधुः । प्रतिस्तुसु (उ० १११४०) इति मन्-यामः ॥३७॥
४३. वा गतिगन्धनयोः' । वाति । नेर्गद (८।४।१७) इति णत्वम् -प्रणिवाति । वाती, वान्ती। वो विधूनने जुक् (७।३।३८)-पक्ष- ५ केनोपवाजयति । 'वीजयतिः' इति तु लौकिको धातुः । निर्वाणोऽवाते (८।२।५०) साधुः, वाते तु निर्वातो वायुः, गत इत्यर्थः। प्रतिस्तुसु (उ० १११४०) इति मन्- वामः । कृवापाजि (उ० १११) इत्युण -- वायुः । हसिमृग्रिण्वा (उ० ३।८६) इति तन्–वातः ॥३८॥
४४. भा दीप्तौ । भाति । दाभाभ्यां नुः (उ० ३।३२)-भानुः। १० चिन्तिपूजि (३।३।१०५) इति चकाराराद् भानं भा। भास्तु भासेः (१।४१२) । न भाभूपूकमि (८।४।३४) इति प्रभानम् । प्रभा (द्र० ३।३।१०६) । सर्वादिपाठाद् (गण० १।१।२७) भवतु ॥३६॥ . ४५. ष्णा शोचे । स्नाति । निष्णाति । ग्लास्नावनुवमां च (१॥ ५५६) इति मित्त्वम्-प्रस्नपयति, अनुपसर्गाद् वा (द्र० ११५५५) १५ -स्नापयति स्नपयति । निनदीभ्यां स्नातेः कौशले (८।३।८६)षत्वम् -निष्णातः, नदीष्णः। घर्थे कः (द्र० ३३१५८ वा०)-प्रस्नः । भ्वादौ ष्ण वेष्टने (११६५५)-स्नायति । स्नामदि (उ० ४।१११) इति वनिप्--स्नावा, स्नायुः ॥४०॥
१. 'गन्धनं मर्दनम्' इत्यधिकं क्वचित् ।
२. द्र० क्षीरतरङ्गिण्याम् 'ईज' (११११२) धातुव्याख्यानम्-"वीजेलोंकिकाद् अवीजयत् । तत्रैव टिप्पणमपि द्रष्टव्यम् (पृष्ठ ४० टि०१)।
३. लिबिशेन 'चकाराद् भानम्' इत्यत्रैव वाक्यसमाप्तिचिह्न निर्दिष्टम्, तदनन्तरं 'भा' इत्येतावत् स्वतन्त्रमुदाहरणं स्वीकृतम्, तदसत् । नहि 'चिन्तिपूजि' (३।३।१०५) इत्यनेन 'भानम्' पदं सिद्धयति, अपि त्वनेन सूत्रेण " चिन्तादिपदप्रसिद्धचं 'अङ' विधीयते । तस्मादयमत्र क्षीरस्वामिन आशयःअविधायके 'चिन्तिपूजि' इत्यादिसूत्रे चकारेण 'भा' धातोरपि स्त्रियां भावेऽङ प्रत्ययो बोध्यः, तेन (टापि) भानं 'भा' इत्याकारान्तं भापदं प्रसिद्धयति ।
४. प्राद्ययोरप्राप्तो विकल्प इत्युक्तं प्राक् (११५५६ व्याख्याने) । तदनुसारं सोपसर्गात् प्रस्नापयति इत्येव प्राप्नोति । तथैव पूर्वम् (१।५५६) उदाहृत- ३० मपि ।
५. अनुपसर्गाद्वा' इति त्वनुवर्तमानं पदमत्र निर्दिष्टम् ।