________________
१८६
- क्षीरतरङ्गिण्यां
१०.
१५
स्थागापाजहाति (६।४।६६) इतीत्वम् --अध्यगीष्ट, अध्यष्टः अध्यगीष्यत, अध्यष्यत । इङश्च (२॥४॥४८) इति सनि गमिः, प्रज्झनगमां सनि (६।४।१६) इति दीर्घः- अधिजिगांसते। क्रीजीनां णौ (६।१। ४८) आत्त्वम् -अध्यापयति, बुधयुध (१।३।८६) इत्यतङ' । णौ च संश्चडोः (२।४।५१)-अधिजिगापयिषति, अध्यापिपयिषति ; अध्यजीगपत्, अध्यापिपत् । इधार्योः शत्रकृच्छिणि (३।२।१३०)-अधीयन् पारायणम् । इङश्च (३।३।२१) इति घत्र - उपाध्यायः । अपादाने स्त्रियां वा कोष (३।३।२१ वा०)- उपाध्यायी, उपाध्याया। अध्यायन्यायोद्यावा (३।३।१२२) इत्यध्यायः साधुः ॥३४॥ __४०. इक् स्मरणे । ककारो ऽधीगर्थ (२।३।५२) इति विशेषणार्थः-मातूरध्येति । इण्वदिकः (२।४।४५ वा०) अतिदेशाद् अध्यगात्, अधियन्ति, अधिगमयति, अधिजिगमिषति । अधीत्य ॥३५॥
४१. वी गतिप्रजनकान्त्यसनखादनेषु । प्रजनः प्रथगर्भग्रहणम् प्रसनं क्षेपः, अशनं व्याप्तिरित्येके। वेति प्रजने वीयतेः (६।१।५५) इति णावात्त्वं वा-पुरोवातो गाः प्रवापयति, प्रवाययति । वीपतिभ्यां तनन् (उ०३।१५०)-वेतनम् । वियस्तुट् च (द० उ० ६।४५) इत्यसच्वेतसः । असुन (द० उ० ६।४६) - वयस् । वीज्याज्वरिभ्यो निः(उ० ४।४८)-वेणिः । गुधृवीपचिवचि (द० उ० ८।८६) इति त्रन्'वेत्रम् । अजिवृरीभ्यो निच्च (उ० ३।३८) इति णु:-वेणुः। वीतम् असारं हस्त्यश्वम् । क्तिच् (द्र० ३।३।१७४) वीतिरश्वः ॥३६॥
४२. या प्रापणे । नेर्गद (७।४।१७) इति णत्वम् -प्रणियाति । प्राच्छीनद्योर्नुम् (७।१।८०) वा-याती यान्ती। लङः शाकटायनस्यैव (३।४।१११) इति झर्जुस् वा - अयान्, अयुः । लुङि-यमरमनमातां सुक् च (तु० ७।२।७३) इट् च-अयासीत् । यश्च यङः (३।२।१७६) वरच-यायावरः । यो द्वे च (उ० ११२१) इति ययुरश्वः । कमिमनिजनि(उ० ११७३) इति तुः- यातुः राक्षसः । हुयामा
१. अतङ् अर्थाद् आत्मनेपदाभाव,, परस्मैपदमिति यावत् ।
२. अत्र लिबिशेन 'बन्' पाठोऽशुद्ध इति मत्वा 'सार्वत्रिकोऽयं पाठः' इति टिप्पणी कृता । यद्यपि पञ्चपाद्यां, क्वचिच्च दशपाद्यां 'त्रः' इत्येवोपलभ्यते, ३० तथापि दशपाद्याः क. ख. ग. हस्तलेखेषु 'अन्' इत्येव पठ्यते ।
२०
२५