________________
१८५
अदादिगणः (२) बोधने-प्रत्याययति । सनि च (२।४।४७)-जिगमिषति, बोधनेअर्थान् प्रतीतिषति । उपेयिवाननाश्वान् (३।२।१०६) इत्युपेयिवान् । एतिस्तुशासु (३।१।१०६) इति क्यप्–इत्यः । श्यायध (३।१।। १४१) इति णः-अत्यायः । इणनजि (३।२।१६३) इति क्वरप् - इत्वरः । एरच (३।३।५६)-अन्वयः, समयः । परिन्योर्नीणो तानेषयोः (३।३।३७) घञ्-न्यायः । परावनुपात्यय इणः (३।३।३८) तवाद्य पर्यायः', नेह विपर्ययः । संज्ञायां समज (३।३।६६) इति क्यप् -इत्या । छन्दसीणः (उ० ११२) उण्-आयुः । किंजरयोः श्रिणः (उ० १।४) अण्-जरायुः । दुरोणो लोपश्च (उ० २।२०) इति रक --दूरम् । एतेणिच्च (उ० २।११८) इत्युसिः-पायुस् । इसिदीङव्यविभ्यो नक् (उ० ३।२)-इनः । इण्भीका (उ०३।४३) इति कन्–एकः । हसिमृग्रिण्वा (उ० ३।८६) इति तन्–एतो वर्णः । इणः किद (उ० ३।१५.३) इति भः-इभः । अध्यायन्यायोद्याव (३।३। १२२) इति. न्यायः । इण प्रागसि, (उ०४।१९८) इत्यसुन् नुट् च - एनस् । असुन् (द० उ० ६।४६) अयः शस्त्रम् । इण प्रागोऽपराधे १५ (उ० ४।२१७ श्वेत.)-प्रागस् । रक् (द्र० उ० २।२८) इरा। समीणः (उ० २।११) इति थक्-समिथः संगमः । सानसिवर्णसि (उ० ४।१०७) इतील्वलोऽसुरः । कुवश्चडू दीर्घश्च, समीणः (उ० ४।६२, ६३) समीचः समुद्रः । एतीत्येणो मृगः ॥३३॥ ......
३६. इङ् अध्ययने । इङोऽधिनावश्यंभावी योगः। यदाह-कश्चित् २० तमनुवर्तते । अधीते । अधीयते-अकृत्सार्वधातुकयोर्दीर्घः (७।४। २५) । गाङ् लिटि (२।४।४६) अधिजगे वेदम् । विभाषा लुङ्लकोः (२।४।५०) गाकुटादिभ्योऽणिन्डित् (१।२।१)इति ङित्त्वम्, घुमा
१. इतोऽग्रे 'क्रमः' इत्यधिक क्वचित् ।
२. उणादिप्रत्ययान्तेषु कथमष्टाध्यायाः सूत्रमुद्धृतम् ? किमत्र पाठभ्रशो- २५ जातः ?
३. 'गौर भौर् वाक्' इत्यधिकं क्वचित् । अत्र ‘गौः भूः, वाक्' इति शुद्धः पठो द्रष्टव्यः ।
४. समीणः' सूत्रमुणादौ द्विः पठ्यते । सन्देहनिवृत्त्यर्थमत्र पूर्वसूत्रेण सह निर्दिष्टम्। ५. अयं कृत्स्नः पाठः-धात्वर्थ बाधते कश्चित् कश्चित्तमनु- ३० वर्तते । विशिनष्टि तमेवार्थमुपसर्गगतिस्त्रिधा ।।