________________
अंदादिगण; (२)
१८१
प्रानकः शीभियोः (तु० उ० : ३।८२)- शेयानकः । निशेरतेऽस्मिनिति निशीथ: (द्र० उ० २।६) । इणशोभ्यां वन् (उ० ४।१५२)शेवः सुखम् ॥२०॥
२५. यु मिश्रणे । यौति, उतो वृद्धिल कि हलि (७।३।८६) । यविता । सनीवन्तर्ध (७।२।४६) इति वेट-युयूषति यियविषति। ५
आसुयुवपि (३।१।१२६) इति ण्यत् - याव्यम् : ऋ दोरम् (३।३। ५७)-- यवः, स्वार्थेऽण' यावः, कनि (द्र० ।४।२६)- यावकोऽलक्तक: । समि युदुद्रुवः (३॥२॥२३) घञ्-संयावो गुडमिश्रं खाद्यम् । उदि श्रवतियौतिपूद्र वः (३।३।४६)- उद्यावः । नन्द्यादौ (द्र० ३।१११३४) ल्यु:- यवनः । कनिन् युवृषि (२० १।१५६) १० इति कनिन्– युवा । तिथपृष्ठ (उ०२।१२) इति यूथः । कुसुयुभ्यो दीर्घश्च (तु० द० उ० ७।५)-यूपः । प्रजियुधूनीभ्यो दीर्घश्च (उ० ३।४७)-यूका । सृयुवचिभ्योऽन्युजागूजक्नुचः (उ० ३ । ८१)यवागूः । वहियभ्यां च (उ०.३।११४ श्वेतः०)-इत्यसच- यवसो' घासः । वहिधिनु (तु० उ० ४।५१) इति निः- योनिः । पूवो- १५ लॊपश्च(तु०द० उ० ६।१६) इत्यूषन्-यूषः । यूषः सौत्राद् योषा ।
१. प्रज्ञादिभ्यश्च (५।४।३८) इति प्रज्ञादेराकृतिगणत्वात्, यावादिभ्यः कन् (५।४।२६) इति सूत्रे यावपदनिर्देशाद् वा । २. 'गुडगोधूमखाद्यम्' पाठा। . २ उणादिसूत्रपाठस्तु श्वेतवनवासिपाठेन संवदात, परं स णित्त्वमनुवर्त्य यावसपदं व्युत्पादयति । वेदे (यजु० २१।४३) यवस' इत्यप्याद्युदात्त उप- २० लभ्यते । तदर्थं वहियुभ्यां नित्' इति दशपादीसूत्रे (९।४७) णित्त्वं नानुवर्तनीयम् ।
४. अत्र 'भूङ् य्वोर्लोपश्च' इति शुद्धः पाठो द्रष्टव्यः, तथैव दशपाधुणादौ निर्देशात्, स्वयं च 'मूङ बन्धने' (११६६२) सूत्रव्याख्याने स्वल्पभेदेनोद्धरणाच्च (पृ० १५६)। - ५: 'युषेः' इति शुद्धः पाठो द्रष्टव्यः । 'हृसृरुहियुषिभ्यः इतिः' इत्युणादि- २५ सूत्रे (१९७) पाठदर्शनात युष सौत्रो धातुः । अपि च 'यूष' पाठे लघूपधत्वा- .. भावाद् 'योषा' इत्यत्र गुणोऽपि न स्यात् ।
६. इतोऽग्रे लिबिशेन भ्रान्त्या उणादेः ३।६१ सूत्रसंख्या तुलनाय निर्दिष्टा । अत्र सूत्रे उज्ज्वलंदतेन यूधातोः सप्रत्यये योषापदसिद्धिरुक्ता, क्षीरस्वामिना ३० तु युषधातोः । लिबिशेनैतदपि न बुद्धं यत् युष धातो: स-प्रत्यये योषापदसिद्धिः कथं भविष्यति ?