________________
क्षीरतरङ्गिण्यां - २१. पृची सम्पर्के । सम्पर्को मिश्रणम् । पृक्ते । सम्पृक्तः । रुधादौ (७।३०) पृणक्ति । पृचि इति कौशिकः-पृङ क्त, ॥१८॥
२२. उदात्ता अनुदात्तेतः॥
२३. षङ' प्राणिगर्भविमोचने । इत ऊर्ण अन्ता (२।३१) नव ५ सेट: । सूते । स्वरतिसूति (७।२।४४) इति वेट-सोता, सविता ।
सुषुबे । भूसुवोस्तिङि (७।३।८८) इति गुणो नास्ति-सुवावहै । स्तौतिण्योरेव पशि (८।३।६१) इति षत्वम्-सुषावयिषति । सुविनिदुभ्यः सुपिसूति (८।३।८८) इति सुषूतिः । राजसूयसूर्य (३।३। ११४) इति राजसूयः साधुः । सूतः, सूतकम्, भावक्तान्तात् कन्, सूतकापुत्रकावृन्दारकाणां वेति वक्तव्यम् (तु० ७।३।४५ वा०) इति सूतका सूतिका । सुसूधागृधिभ्यः क्रन् (श्वेत० उ० २।२७)- सूरोऽर्कः । सुवः कित् (उ० ३।३५)-सूनुः । क्रिन (द्र० उ० ४।६४)सूरिः । दिवादौ षूङ् प्राणिप्रसवे (४।२१)-प्रसूयते । तुदादौ षू प्रेरणे (६।११०)-सुवति ॥१६॥
२४. शीङ् स्वप्ने । शेते । अधिशोङ्स्थासां कर्म (१।४।२६)ग्राममधिशेते । शोङो रुट (७।१।६)-शेरते । शीङः सार्वधातुके गुणः, अयङ यि क्ङिति (७।४।२१,२२)--शय्यते । अधिकरणे शेते (३।२।१५)-खशयः, पाश्र्वादिभ्यः करणे (तु० ३।२।१५ वा०)
पार्श्वशयः । गत्यकर्मक (३।४।७२) इति क्तः, निष्ठा शीविदि २० (१२।१६) इत्यकित्त्वम् -- शयितः । आलुज् वक्तव्यात् (द्र० ३।२।
१५८ वा०) शयालुः । व्रते (३।२।८०) णिनिः-स्थण्डिलशायी। एरच (३।३।५६)-संशयः । व्युपयोः शेते पर्याये (३।३।३६) घञ् -तवाद्य राजोपशायः, विशायः। संज्ञायां समज (३।३।६६) इति क्यप् - शय्या । भृमृशी (उ० ११७) इत्यु:-शयुरजगरः । शीडो धुक्लन्वलज वलन्वालनः (तु० उ० ४।३८)-शीधुः शीलम्, शैवलम्, शेवलम्, शेवालम् । वङ शीभ्यां रूपस्वाङ्गयोः पुट च (द० उ० ह। ६१) इत्यसुन् शेपो लिङ्गम् । शीङः किद्' ध्रस्वश्च (तु० द० उ० ३। ५५)-शिखा । शिखरम्, शेखरम् । शाखा तु शाखतेः (१६०),
१. निद्' इति द० उ०, श्वेत'० नारा० । शिखाशब्दस्यायुदात्तत्वदर्शनात् 'निद्' पाठेनैव भाव्यम् । गुणस्तु ह्रस्व विधानसामर्थ्यादेव न भविष्यति । तस्मादिह किद्' इति पाठश्चिन्त्यः ।
२५
३०